________________
श्रीपार्श्वनाथचरितेअतिस्निग्धतया निर्यत्तुषारकणिकामिषात् । अर्थितापहृतिप्रीत्या मुक्तहर्षा(कैरिव ।। ८२१ ॥ मिलितोन्नतविस्तीर्णैः पुष्पपत्रफलान्वितैः । विचित्रवृक्षैः परितः परीतं स्वजनैरिव ॥ ८२२ ॥ परागैरिव कापूरैर्मुक्तानामिव चूर्णिभिः। द्रव्यैरिव हिमानीनां सुधांशोरिव रश्मिभिः ॥ ८२३ ॥ मुनीनामिव चेतोभिर्निर्मितं मन्यते जनैः । यदत्यच्छत्नशैत्येन तत्रास्त्येकं महासरः ॥ ८२४ ॥
(सप्तभिः कुलकम् ) तस्यान्ते सुजनस्येव विश्वस्तः सार्थ आवसत् । जनः प्रवकृते नीरेन्धनानपचनादिषु ॥ ८२५ ॥ तदा च मरुभूतीभः करिणीभिः समावृतः। एत्य तत्र सरस्यम्भः पपी मेघ इवाऽर्णवे ।। ८२६ ।। पयःपूर्णकरोत्क्षेपं करिणीभिः समं चिरम् । तत्र रत्वा स निर्यातः पालिमध्यारुरोह च ।। ८२७ ॥ दिशोऽवलोकयंस्तत्रापश्यत् तं सार्थमोषितम् । कृतान्त इव चाधावत् कोपात् ताम्रमुखेक्षणः ॥ ८२८॥ कुण्डलीकृतशुण्डाको निष्कम्पश्रवणद्वयः । पूरिताशः स गर्जाभिर्नाशयामास सार्थिकान् ॥ ८२९ ॥ नरनार्यो वाहनानि करभादीनि चाऽभितः । पलायांचक्रिरे जीवग्राहं सर्वो जिजीविषुः ॥ ८३० ॥ पर्यस्यच्छकटं त्रुट्यत्पटगेहं रटजनम् । आरटत्करभं तत्र तदासीदतिभीषणम् ।। ८३१ ॥ ज्ञात्वाऽवधेर्बोधिकालं करिणः तस्य संमुखम् । भगवानरविन्दोऽपि कायोत्सर्ग ददौ स्थिरः ॥ ८३२ ॥ दूरतो धावितः क्रोधादिभः पार्श्वगतोऽस्य तु । १ युक्तम् । २ महतो हिमानाम् । ३ ओषितं स्थितम् ।