SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः प्रशान्तमत्सरो जज्ञे तत्तपःश्रीप्रभावतः ॥ ८३३ ॥ सद्यश्च जातसंवेगाऽनुकम्पः स्थिरदेहभृत् । तस्थौ मुनेः पुरस्तस्य स शैक्ष इव नूतनः ॥ ८३४ ॥ मुनिस्तस्योपकाराय कायोत्सर्गमपारयत् । शान्तगम्भीरया वाचा तं बोधयितुमब्रवीत् ।। ८३५ ।। भो भोः ! स्मरासि किं न त्वं मरुभूतिभवं निजम् । किं न प्रत्यभिजानासि मामरविन्दभूपतिम् ॥ ८३६ ॥ तद्भवे प्रतिपन्नं किं व्यस्मार्षीर्धर्ममार्हतम् ? । स्मर सर्व विमुञ्चमं मोहं श्वापदजातिजम् ।। ८३७ ॥ गिरं पीयूषदेशीयां मुनेस्तस्य मतङ्गजः । पपौ निश्चलविस्तारिकर्णपर्णपुटेन सः ॥ ८३८ ॥ अथोहापोहतो जातिस्मरणं प्राप्य तत्क्षणात् । अत्यन्तोल्लासिहर्षाश्रुसलिलप्लुतलोचनः ॥ ८३९ ॥ भूत्वाऽवनतकायाग्रः करेण चरणौ स्पृशन् । शिरसा तं नमश्चक्रे संविनात्मा मुनिं गजः ॥ ८४० ॥ भूयोऽपि तं मुनिः स्माह भवेऽस्मिन्नाटकोपमे । प्राणी नट इवाप्नोति रूपान्यत्वं क्षणे क्षणे ।। ८४१ ।। तथाहि क तदा धीमांस्तत्त्वज्ञः श्रावको द्विजः । जातिस्वभावमूढात्मा केदानीं त्वमसि द्विपः ? ।। ८४२ ॥ किंवाऽथ बहुनोक्तेन कार्यसारो भव द्रुतम् । कषायविषयासङ्गं विमुच्य करिपुंगवः ॥ ८४३ ॥ नासि सर्वविरत्यहस्तद् द्वादशव्रतात्मकः । भूयः श्रावकधर्मोऽस्तु प्रारजन्माङ्गीकृतस्तव ॥ ८४४ ॥ इत्यादि गदितं धर्मरहस्यं मुनिनाखिलम् । श्रद्धानसहितः सोऽनुमेने हस्ताग्रसंज्ञया ॥ ८४५ ॥ वरुणा करिणीभूता सापि तत्रैव तस्थुषी । १. खेदेनेत्यपि ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy