________________
श्रीपार्श्वनाथचरितेतदैव जातिस्मरणमुपलेभे गजेन्द्रवत् ।। ८४६ ॥ भूयोऽप्याख्यजिनधर्म तस्यर्षिः स्थैर्य हेतवे । ययौ च श्रावकीभूय मुनि नत्वा स कुञ्जरः ॥ ८४७ ॥ मिलितः सर्वलोकोऽपि पुनस्तद्बोधविस्मितः । कोऽपि दीक्षामुपादत्ते कोऽप्यभुत् श्रावकस्ततः ॥८४८॥ तदा सागरदत्तोऽपि जिनधर्मे दृढाशयः । विशिष्टश्रावको जज्ञे सुरैरप्यविकम्पितः ॥ ८४९ ॥ अष्टापदाद्रौ गत्वा च सोऽरविन्दमहामुनिः । अवन्दतार्हतः सर्वान् विहरंश्वान्यतो ययौ ॥ ८५० ॥ कुञ्जरश्रावकः सोऽपि भूत्वा भावयतिः स्वयम् । ईर्यादिनिरतोऽचारीत् कुर्वन षष्ठादिकं तपः ।। ८५१ ।। सूर्यतप्ताम्भसः पाता शुष्कपत्रादिपारणः । स करी करिणीकेलिविमुखोऽस्थाद् विरक्तधीः ॥ ८५२ ॥ इति दध्यौ च धन्यास्ते मर्त्यत्वे प्रव्रजन्ति ये । पात्रदानमिवाऽर्थस्य मर्त्यत्वस्य फलं व्रतम् ॥ ८५३ ॥ द्रविणं तद्धनेने मर्त्यत्वं धिग् मया तदा । अहार्यनात्तदीक्षेण किं करोम्यधुना पशुः ? ॥ ८५४ ॥ तिर्यक्त्वेऽपि शरीरस्य गुरुत्वेनास्य पापिना । अभवं बहुजीवानां क्षयकारी भयङ्करः ॥ ८५५ ॥ येन तेन वनाहारेणैष कुक्षिः प्रपूर्यते । तज्जीव ! ममतां देहे त्यक्त्वा धर्मपरो भव ॥ ८५६ ॥ भावयन् भावनामेवं गुर्वाज्ञास्थिरमानसः । स कालं गमयन्नस्थात् सुस्थितः सुख-दुःखयोः ॥ ८५७॥ इतश्च कमठो शान्तो मरुभूतिवधादपि । अभाष्यमाणो गुरुणा गर्यमाणोऽन्यतापसैः ।। ८५८॥ विशेषेणार्तध्यानस्थो मृत्वाऽभूत् कुर्कुटोरगः । १ कृपणेनेव ।