SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ६९ अटव्यां दर्शनेनाऽपि सर्वसत्त्वभयंकरः ॥ ८५९ ॥ दंष्ट्रया पक्षविक्षेपैनखैश्चञ्चुपुटेन च । जातपक्षो यम इव संहरन् प्राणिनोऽखिलान् ॥ ८६० ॥ सरस्युष्णांशुसंतप्तं स पिबन् प्रासुकं पयः । ददृशे मरुभूतीभस्तेन बम्भ्रमताऽन्यदा ॥ ८६१ ॥ पङ्के मग्नस्तदा दैवात् तपःक्षामतनुत्वतः। निर्गन्तुमक्षमः कुम्भे स दष्टः कुर्कुटाहिना ॥ ८६२ ॥ तद्विषप्रसरैत्विाऽवसानं स मतङ्गजः। चक्रे चतुर्विधाहारप्रत्याख्यानं समाहितः ॥ ८६३ ॥ तत्क्षणोल्लासिवीर्यश्च विमृश्यन् मुनिभाषितम् । सस्मारैकमनाः पञ्चपरमेष्ठिनमस्कृतिम् ॥ ८६४ ॥ व्यभावयच्च रे ! जीव ! मरणे ध्रुवभाविनि । धर्मध्यानक्षणः सोऽयं महाभाग्येन लभ्यते ॥ ८६५ ॥ परो निमित्तमात्रं स्यात् स्वकर्मैवाऽपराध्यति । प्रद्वेषं मा स्म तत् कार्षीरस्मिन् कुर्कुटपन्नगे ॥ ८६६ ॥ इत्थं शमसुधातृप्तो धर्मध्यानी विपद्य सः । सहस्रारे सप्तदशसागरायुः सुरोऽभवत् ॥ ८६७ ॥ विमानेऽन्तर्मुहूर्तेनोत्थाय दृष्ययुगान्तरात् । आसीनं तरुणनराकारं सर्वाङ्गभूषितम् ।। ८६८ ॥ रत्नकुण्डलकोटीरतारहारादिभूषणाः । सहसा सुरसुन्दर्यः सहर्षमिदमूचिरे ।। ८६९॥ : (युग्मम्) जय,नन्द, चिरं भद्र ! प्रीणय स्वशाऽनुगान् । अद्यास्माकमनाथानां नाथत्वं यत् त्वमासदः ॥ ८७० ॥ अद्य पुण्याहमद्यैव मङ्गलं प्रीतिरद्य च । अद्यैव वसतिवर्गो नाथ ! यत् त्वमिहागमः ॥ ८७१ ॥ . देवादेशय यत् कृत्यं किंकरा वयमास्महे ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy