________________
सप्तमः सर्गः । :
1
त एव दिवसाः श्लाध्या यत्रोपक्रियते परे । शेषास्तु दयित ! ज्ञेया ध्रुवं द्यूतेन हारिताः ।। ९५ ।। नतिरेवोन्नतिलके दानमेव महाधनम् । परार्थ एव हि स्वार्थो महतां येन कथ्यते ॥ ९६ ॥ आदित्याय नमः सृष्टं, मेघाय ग्रीष्मशोषणम् । मार्गश्रमस्तु वृक्षाय, दुःखिनस्तूपकारिणे ॥ ९७ ॥ अन्यथा कथमेतेषां ज्ञायते महिमा महान् । aaat भवतो भाग्यादायातौ मा विलम्ब्यताम् ॥ ९८ ॥ कीरोऽप्याह प्रिये ! युक्तं स्मारितं मे त्वयाऽधुना । इत्युदित्वा झगित्येव सुकूटाद्रिं गताविमौ ॥ ९९॥ वरसेनस्तदश्रौषीत् सर्वं यावत् क्षणार्धतः । सहकारफले भूमावीक्षिते पतिते पुरः ।। १०० ॥ ज्ञात्वा तद्वचनाद् भेदं गृहीत्वा ते न्यधात् कटौ । दध्यौ च किमिदं सत्यमासन्नप्रत्ययोऽथषा ।। १०१ ।। अथ ज्येष्ठो जागरित्वा बन्धुमहरके स्थितः । वरसेनः क्षणं तत्र निद्रायाः सुखमन्वभूत् ।। १०२ ॥ सूरोदधे ततः स्थानात् पुरतः प्रस्थितावुभौ । आसाद्यैकं सरस्तत्र देहशौचादि चक्रतुः ॥ १०३ ॥ तत्त्वं चाऽकथयन्नाम्रफलं, राज्यकरं ददौ । ज्येष्ठभ्रातुः, स्वयं प्राश वरसेनोऽपरं पुनः ।। १०४ ॥ प्रच्छन्नीभूय गण्डूषं यावत् तत्र करोत्यसौ । पतति स्म पुरस्तावद् दीनारशतपञ्चकम् ।। १०५ ॥ वस्त्र- भोजन ताम्बूलादिना प्रतिपुरं ततः । कुमारो विलसत्युच्चैः सह ज्येष्ठेन बन्धुना ॥ १०६ ॥ तेनाऽयमन्यदा पृष्टः कुतो द्रव्यं तवेति सः । ऊचे कौटुम्बिकैर्दान्यासुवर्ण मे प्रवेशितम् ॥ भाण्डागारे तदद्यापि नाऽऽसीदर्पितमित्यदः ।
१०७ ॥
३८७
3