SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३८८ श्रीपार्श्वनाथचरितेक्रमाच सप्तमदिने तौ काश्चनपुरं गतौ ॥ १०८ ॥ तत्रैकस्य तरोर्मूले सुध्वाप बहिरग्रजः । श्रान्तानामलसानां च निद्रा हि सुलभागमा ॥ १०९ ॥ पुरान्तर्भोजनाद्यर्थ वरसेनः पुनर्ययौ । तमिश्च समये तत्र पुरे राजा मृतोऽसुतः ॥ ११० ॥ ततो हस्त्य-ऽश्व-कलश-च्छत्र-चामरलक्षणम् । बम्भ्रमीति पुरे देवाऽधिष्ठितं वस्तुपञ्चकम् ॥ १११ ॥ नरं राज्यधरं कश्चित् तेनाऽन्वेषयता बहिः। गत्वा सोऽमरसेनाख्यः कुमारः सहसाऽऽश्रितः ।। ११२॥ आरूढोऽथ गजस्कन्धं दिव्यवेषधरो नृपः। प्रणम्य मन्त्रि-सामन्त-नागरैरभिनन्दितः ॥ ११३ ॥ उपरिष्टाद् धृतच्छत्रः श्वेतचामरवीजितः। पुरः कौतुकिभिर्लोकैः कृतसङ्गीतमङ्गलः ॥ ११४ ॥ शृण्वन् जयजयारावं जनादीक्षितुमागतात् । पुरे प्रविश्य शोभाट्ये नीत्या राज्यं करोति सः ॥ ११५।। (विशेषकम् ) वरसेनोऽपि तां शुद्धि लब्ध्वा मानधनोऽधिकम् । दध्यौ किं याम्यहं तत्र सकाशे भ्रातुरात्मनः १ ॥ ११६॥ अथवा धिगिदं चित्तं यदेषोऽभूद् नृपो नवः । गत्वाऽहमपि किं तत्र तद् वक्ष्ये दीनमीदृशम् ॥ ११७ ॥ तवाऽहं सोदरस्तेन देशग्रामादि किश्चन । ममापि दीयतामित्थं युगान्तेऽपि न वच्म्यहम् ॥११८॥ दिवसो रजनी वापि क्षयं यातावुभाविमौ । व्यवसायं परित्यज्य परीस्यं यत्र वीक्ष्यते ॥ ११९ ॥ पौरुषाकृतियुक्तस्य नीचवृत्तौ कुतो रतिः । मत्तेभकुम्भनिर्भेदी केसरी तृणमत्ति किम् ? ॥ १२० ॥ १ परमुखम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy