________________
सप्तमः सर्गः।
३८९ यतन्ते हि धने नीचा निजदेहे तु मध्यमाः। उत्तमास्तेजसि न्याय्ये भुवनव्यापिनि ध्रुवे ॥ १२१ ॥ दीनमुक्त्वा परं नत्वा लल्ली कृत्वा यदय॑ते । । जीव्यते ननु किं तेन युगानि दश पञ्च वा ? ॥ १२२ ॥ यच्चापकर्षणे वामबाहुं निजमपीक्षते । सहायं दक्षिणो बाहुर्वीरस्तेनापि लज्जते ।। १२३ ॥ यत्करौ योजयेल्लोकांस्तद्वरं शलिकातृणम् । नरोऽपि न स योऽन्यस्य पुरतः कुरुतेऽञ्जलिम् ॥१२४॥ ये प्रणामाञ्जलिं नीचैः कुर्वन्ति कृपणाः प्रभोः। ते श्रियः प्रियपद्मायाः दर्शयन्तेऽम्बुजं ध्रुवम् ॥ १२५ ॥ चिन्तयित्वेति तत्रैव धनेन विलसत्यसौ। गृहे च वसति प्रौढमगधाख्यपणश्रियः ॥ १२६ ॥ भृशमेष नृपेणाऽथ नगरेऽन्वेषितः परम् । नैव दृष्टस्ततो राजा व्यग्रोऽभूद् राज्यचिन्तया ॥ १२७ ॥ नव्यर्द्धिसङ्गमे सद्यस्तन्मयीभूतचेतसः । सर्व हि पूर्वसम्बन्धि याति प्रायेण विस्मृतिम् ॥ १२८ ॥ । खेच्छया वरसेनोऽपि त्याग-भोगपरायणः । गीत-छूते-टगोष्ठ्यादिविनोदैन॑यते दिनान् ।। १२९ ॥ अन्यदा कुट्टिनी प्रोचे मगधां पुत्रि ! ते प्रियः । महादानेश्वरो भोगी नाऽन्यः कोऽपि भुवीदृशः ॥ १३० ॥ राजसेवादिकं किश्चिन्न करोति कदाऽप्यसौ । भूयानर्थव्ययश्चैष पृच्छयतां कारणं ततः ॥ १३१ ॥ मगधाऽप्याह हे ! मातः ! प्रश्नेनाऽनेन किं वृथा । तद् भूरि पूरयत्येष वित्तं कार्य हि येन वः ॥ १३२ ।। अत्याग्रहेण चाँऽकायाः प्रेरिता मगधाऽन्यदा । पप्रच्छ वरसेनं ते कुतो देव ! धनागमः ? ॥ १३३ ॥ १ चाटूनि । २ पणश्रीर्वेश्या । ३ अक्का माता ।