________________
३४८
श्रीपार्श्वनाथचरितेतथा यथैक्यं सौदर्यव्यञ्जनाय तयोरभूत् ॥ ९५३ ॥ यतो लक्षणशास्त्रेऽपि रूपे रूपप्रवेशतः। एकशेषः सरूपाणां भवत्येकत्वसिद्धये ॥ ९५४ ॥ महोत्सवेन नगरं प्रवेश्य नमिमग्रजः।। उल्लसन्निर्मलस्नेहादश्रुपूर्णेक्षणोऽवदत् ॥ ९५५ ।। पितुरेवं मृतिं दृष्ट्वा वत्स ! राज्ये रतिर्न मे । परं राज्धधराभावादियकालमहं स्थितः ।। ९५६ ॥ निजबन्धु विनाऽभीष्टसिद्धिर्भवति नो भुवि । इत्यादिवाक्यैः संबोध्य नमि राज्येऽभ्यषिश्चत ॥९५७।। चन्द्रवत् परलोकस्योद्योताय प्रात्रजत् स्वयम् । प्रतापाक्रान्तभूभृत् तु नमिः सूर्य इवोदितः ॥ ९५८ ॥ तस्य राज्यद्वयं शत्रौ शक्त्या भक्त्या गुरौ जने । द्विधाधर्मप्रवीणस्याऽवतः कालो बहुर्ययौ ॥ ९५९ ॥ पाण्मासिकोऽन्यदा जज्ञे महादाहो नमेस्तनौ । तस्योपशान्तये राज्यः वयं घर्षन्ति चन्दनम् ॥ ९६०॥ तद्बाहुवलयश्रेणिजणत्काररवैर्नमेः । कर्णाघातेन जायेत दाहार्तस्यारतिभृशम् ॥ ९६१ ॥ तदादेशात् ततो राज्यः कङ्कणान्युदतारयन् । क्रमेण यावदेकैकं मङ्गलाय करे दधुः ॥ ९६२ ॥ अथाऽपृच्छन् नृपो देव्यः किं न घर्षन्ति चन्दनम् । यन्नैष श्रूयते शब्दस्ततो मन्त्रिजनोऽब्रवीत् ॥ ९६३ ॥ देव्यः सर्वा अपि स्वामिन् ! घर्षन्त्यः सन्ति चन्दनम् । करे त्वेकैकवलयत्वेन न ज्ञायते ध्वनिः ॥ ९६४ ॥ तत् श्रुत्वा जातसंबोधश्छिन्नमोहो नृपो हृदि । दध्यौ सर्वेऽप्यहो ! भूरिसंयोगा दुःखदायकाः ॥९६५॥ कङ्कणैभूरिभिर्दुःखं स्वल्पैः स्वल्पतरैः सुखम् ।
१ रक्षत।