SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ - षष्ठः सर्गः। ३४९ यावदस्यैव दृष्टान्तादेकाकित्वे महासुखम् ॥ ९६६ ॥ उच्यते चयथा यथा महत् तन्त्रं विस्तरश्च यथा यथा । तथा तथा महद् दुःखं सुखं तु न तथा तथा ।। ९६७ ।। क्लेशाय विस्तराः सर्वे संक्षेपास्तु सुखावहाः । परार्थ विस्तराः सर्वे त्यागमात्महितं विदुः ।। ९६८ ॥ ततोऽसौ यदि मे दाहः प्रशाम्यति कथश्चन । सर्वसङ्गं परित्यज्य तदेकाकी भवाम्यहम् ।। ९६९ ॥ चिन्तयन्निति सुप्तोऽसौ निशान्ने मन्दरोपरि । स्वमे श्वेतगजारूढं पश्यत्यात्मानमुच्चकैः ।। ९७० ॥ शङ्खतूर्यरवेणाऽथ प्रतिबुद्धो निरामयः। . हृष्टो दध्यावहो ! स्वमः प्रधानो ददृशे मया ॥ ९७१ ॥ यतःगोषे पर्वताग्रे च प्रासादे सफलद्रुमे । आरोहणं गजेन्द्रे च स्वमशास्त्रे प्रशस्यते ॥ ९७२ ॥ किश्नप्रथमे वार्षिकं यामे द्वितीये मासिकं फलम् । तृतीये वासरैस्तुर्ये सद्य एव फलं भवेत् ॥ ९७३ ।। तथादृष्टः पूर्वो मया काऽपि शैलराजोऽयमीदृशः। इति चिन्तयतस्तस्य स्वजातिस्मृतिरप्यभूत् ॥ ९७४ ॥ पूर्वमर्त्य भवे कृत्वा श्रामण्यं प्राणते सुरः। आसं तत्राईज्जन्मादावागतो दृष्टकानिमम् ।। ९७५ ॥ ततो बुद्धः स्वयं पुत्रं न्यस्य राज्ये नमिपः । देवतादत्तलिङ्गः सन् प्रव्रज्यां प्रतिपन्नवान् ॥ ९७६ ॥ पुर्या निर्यान्तमालोक्य तच्चरित्रेण रञ्जितः । विप्रवेषधरस्तत्राऽऽययौ शक्रः परीक्षितुम् ।। ९७७ ।।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy