SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३५० श्रीपार्श्वनाथचरिते वदत्येवं च भो राजस्तावज्जीवदयाव्रतम् । त्वद्वतग्रहणे चैषा क्रन्दने दुःखिता पुरी ।। ९७८ ॥ तदयुक्तमिदं पूर्वाऽपरबाधाकरं व्रतम् । ततो ब्रूते मुनिर्दुःखकारणं नो मम व्रतम् ॥ ९७९ ॥ किन्तु लोके स्वस्वकार्यहानिर्दुःखस्य कारणम् । ततोऽहमपि कार्य स्खं कुर्वे किं मेऽन्यचिन्तया ? ॥९८० ॥ प्रज्वलन्त्युपदाऽथ गृहाण्यन्तःपुराणि च ।। हरिराह किमेतत् त्वं दह्यमानमुपेक्षसे ? ॥ ९८१ ।। नमिराह सुखेनाऽस्मि मम यन्नास्ति किश्चन । किश्चिद् मे दह्यमानायां मिथिलायां न दह्यते ॥ ९८२ ॥ पुनराह हरिः पुर्या प्राकारमतिदुर्गमम् । नानायन्त्रयुतं राजन् ! कारयित्वा परिव्रज ॥ ९८३ ॥ राजर्षिः प्राह भो भद्र ! संयमो नगरं मम । शमाख्यो विहितस्तत्र प्राकारो नययन्त्रवान् ॥ ९८४ ।। इन्द्रोऽवोचद् निवासाय लोकानां सुमनोहरान् । प्रासादान् कारयित्वा भोः ! क्षत्रिय ! प्रव्रजेस्ततः ॥९८५॥ मुनिः प्रोचे कुधीरेव कुर्यात् पथिकवद् गृहम् । निश्चलं यत्र संस्थानं युक्तं तत्रैव मन्दिरम् ॥ ९८६ ॥ हरिः प्राह निगृह्याऽऽदौ चौरान् सुस्थं कुरु प्रभो!। व्रत्याह चौरा रागाद्या निगृहीताश्च ते मया ॥९८७ ॥ वासवः प्राह ये केऽपि नमन्ति न तवोद्धताः। पार्थिवास्तान् विनिर्जित्य प्रव्रज्यां कुरु सत्तम ! ॥९८८॥ व्रत्याह लक्षसङ्ख्यान् यः सङ्ग्रामे सुभटान् जयेत् । यश्चात्मानं जयेदेकमेष मे परमो जयः ॥ ९८९ ॥ हरिः प्राह गृहावासपरो धर्मोऽस्ति नाऽपरः। यत्र देदीयते दीना-ऽनायेभ्यो दानमन्वहम् ॥ ९९० ॥ नमिः प्राह गृही धर्म न कुर्याज्जीवघातकृत् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy