________________
षष्ठः सर्गः।
३४७ विधाय जनसम्म मा प्रयातामधोगतिम् ॥ ९४०॥ इति साऽऽपृच्छय गणनीं सुसाध्वीपरिवारिता। सुदर्शनपुरेऽगच्छदार्या नमिनृपान्तिके ॥ ९४१ ।। अभ्युत्थानं विधायाऽथ निवेश्य परमासने । . भक्त्या मदनरेखार्या वन्दिता नमिभूभुजा ॥ ९४२ ॥ राज्ञि भूमौ निविष्टेऽस्मिन्नशेषसुखकारिणीम् । विधाय देशनां साध्वी रहस्यमिदमब्रवीत् ।। ९४३॥ राजन्नसारा राज्यश्री|गा निर्वाहदारुणाः । जीवघातेन दुःखान्ये निवासो नरके ध्रुवम् ॥ ९४४ ।। तदेवं सति सङ्ग्रामानिवर्तस्व दूरं ततः । अन्यच्च कीदृशो ज्येष्ठभ्रात्रा हि सह विग्रहः ? ॥ ९४५ ॥ विस्मयान्नमिराजेन पृष्टं कथमसौ मम । ज्येष्ठभ्राता ततः साध्व्याख्यातं सर्वं यथास्थितम् ? ॥९४६॥ प्रत्ययार्थं च कथिते ते मुद्रा-रत्नकम्बले । दर्शिते च नमस्ते तु पृष्टया पुष्पमालया ॥ ९४७ ।। तथाऽपि विरमेन्नैष यदा मानेन सा तदा । गता चन्द्रयशःपाःभिज्ञाता तेन सत्वरम् ॥ ९४८ ॥ अभ्युत्थायाऽऽसनं दत्त्वा नत्वा च स निविष्टवान् । अन्तःपुरपरीवारजनोऽप्येत्य ननाम ताम् ।। ९४९ ।। आर्ये ! किमेतदित्युग्रं व्रतं ते इति भूभुजा । पृष्टाऽसौ निजवृत्तान्तं यथावस्थितमाख्यत ? ॥ ९५० ॥ राज्ञाऽभाणि पुनः कुत्र सोऽधुना मे सहोदरः । आर्यया गदितं बाह्ये येन त्वं रोधितो नृपः ! ॥ ९५१ ॥ ततो हर्षाकुलश्चन्द्रयशा दाग निर्गतो बहिः। हृष्टो नमिरपि ज्ञात्वा तस्य संमुखमाययौ ॥ ९५२ ॥ पतंश्च पादयोज्येष्ठबन्धुनोत्थाप्य सखजे । १ परिणामभयावहाः।