________________
३४६
श्रीपार्श्वनाथचरितेतस्यामेवाऽहिना दष्टो मृत्वा तुर्यावनौ गतः ॥ ९२७ ॥ स्थापितो मन्त्रिसामन्तैयुगबाहुसुतस्ततः । राज्ये चन्द्रयशाश्चन्द्रयशाः पालयते महीम् ॥ ९२८ ।। नमे राज्ञोऽन्यदा राज्यप्रधानो धवलः करी। आलानस्तम्भमुन्मूल्याञ्चालीद् विन्ध्याटवीमभि ।।९२९॥ सुदर्शनपुरस्याऽसौ समीपे च व्रजनिमः। मानुषैश्चन्द्रयशसो दृष्टा राज्ञो निवेदितः ॥ ९३० ॥ राजाऽप्यैरावताभं तमानयत् स्वपुरं बलात् । तज् ज्ञात्वा चारपुरुषैः कथितं नमिभूभुजः ॥ ९३१ ।। नमिना प्रहितो दूतः स गत्वोवाच यद् नमिः । याचते हस्तिनं स्वीयमथ चन्द्रयशा जगौ ॥ ९३२॥ यदेवं याचते दूत ! तव स्वामी निजं गजम् । तत् कथं नाऽशृणोनीतिं यत् तस्यामिदमुच्यते ॥९३३ ।। न श्रीः कुलक्रमायाता शासने लिखिताऽपि वा । खगेनाऽऽक्रम्य भुञ्जीत वीरभोग्या वसुन्धरा ॥ ९३४ ॥ इत्याद्युक्त्वा नृपो दूतमपमान्य व्यसर्जयत् । सोऽपि गत्वा नमेः सर्व सविशेष व्यजिज्ञपत् ।। ९३५ ।। कुपितोऽथ नमिः सर्वबलेन चलितो द्रुतम् । भेरीभाङ्कारनादेन सुदर्शनपुरोपरि ।। ९३६ ॥ सोत्साहं तं नृपश्चन्द्रयशा अप्यभिषेणयन् । शकुनैर्वारितः किन्तु विज्ञप्त इति मन्त्रिभिः ॥ ९३७ ॥ गोपुराणि पिधायाऽत्र पुरे तिष्ठ यथोचितम् । पश्चाज ज्ञात्वा करिष्यामः सोऽपि राजा तथाऽकरोत् ॥९३८॥ नमिरेत्य ततो विष्वग् नगरं तदवेष्टयत् । । एष व्यतिकरो ज्ञातः कथश्चित् सुव्रतार्यया ॥ ९३९ ॥ चिन्तितं चाऽपरिज्ञातपरमार्थावुभाविमौ । १ सेनया अभिक्रामन् ।