________________
षष्ठः सर्गः।
३४५ ततः सा तत् क्षणाद् निन्ये सुरेण मिथिलापुरिम् । यत्राऽभूद् मल्लिनाथस्य जन्म दीक्षा च केवलम् ॥९१५।। अतः सचीर्थबुझ्याऽर्हचैत्येषु प्रथमं गतौ । दृष्ट्वा साध्वीरथासन्नोपाश्रये तो प्रणेमतुः ॥ ९१६ ।। ताभिश्च कथितो धर्मो यल्लब्ध्वा मानुषं भवम् । धर्मा-ऽधर्मफलं ज्ञात्वा धर्मे कार्यः सदोद्यमः ९१७ ॥ इत्यादिदेशनाप्रान्ते सुरः प्रोवाच सुन्दरि !। एहि राजकुलं यामो दर्शये तनयं तव ९१८ साऽब्रवीदधुनाऽलं मे स्नेहेन भवहेतुना ?। संसारे भ्रमतां जातः को नु बन्धुः परोऽपि वा ?।।९१९॥ एतासामेव साध्वीनां चरणाः शरणं मम । इत्युक्ते त्रिदशः साध्वीस्तां च नत्वा गतो दिवम् ।।९२०॥ दीक्षां मदनरेखापि साध्वीनामन्तिके ग्रहीत् । संजातसुव्रताहाना कुरुते दुष्करं तपः ॥ ९२१ ॥ प्रभावात् तस्य बालस्य नताः सर्वेऽपि पार्थिवाः । राजा पद्मरथस्तेन नमिनामाऽस्य निर्ममे ॥ ९२२ ॥ धात्रीणां लालनाद् वृद्धिं गतोऽसौ समये कलाम् । गृह्वानो यौवनस्थोऽभूत् श्वेतपक्षशशाङ्कवत् ।। ९२३ ।। पित्रा सुकुलजातानां रूपेणाऽतिसुरीश्रियाम् । अष्टोत्तरसहस्रस्य कन्यानां ग्राहितः करम् ॥ ९२४ ॥ अथो पद्मरथो योग्यं ज्ञात्वा राज्ये नमि नृपः। न्यस्य स्खं शमसाम्राज्ये क्षीणकर्मा गतः शिवम् ।। ९२५ ॥ नमिर्नमितभूपालमौलिमोलायितक्रमः । उन्नति स तथा पाप यथा शक्रसमोऽभवत् ॥ ९२६ ।। इतश्च यस्यां सोदैर्य रात्रौ मणिरथोऽवधीत् । १ सुरीश्रियं देवीशोभामतिक्रान्तवतीनाम् । २ मालायितौ मालेवाचरितौ। ३ भ्रातरम् ।