SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः। २५५ यत्र स्फटिकहाणि प्रसृताऽगुरुधृभ्यया।। कैलासा इव राजन्ते तटसञ्चारिवारिदाः ॥१२॥ यत्रोज्ज्वलषा बाढमभीष्टधनदाः सदा । ईश्वराः सार्थनामानः कामविग्रहधारिणः ॥१३॥' यत्राऽन्यसम्पदा हृष्टाः सन्तोऽप्युपचिकीर्षवः । स्युगुणे च परेणात्ते गुणान्या अप्यधोमुखाः ॥ १४ ॥ लावण्यसजलाः स्मेरमुखाब्जाः कलहंसकैः । रम्यक्रमतटा यत्र भान्ति नद्य इव स्त्रियः ॥ १५ ॥ स्वर्गखण्डश्रियं वीक्ष्य यस्यां पद्मसरश्छलात् । सतारकनभाखण्डानीव सख्यादवातरन् ॥ १६ ॥ निलीनाऽनेकसंमत्तपक्षिकूजितगर्जितः । स्फुरत्पल्लवविद्युत्वान् मयूराऽऽरावबन्धुरः ॥ १७ ॥ तुषारकणिकां वर्षन् घनछायान्धकारतः । करोति कस्य न तुष्टिं यत्रारामघनागमः ॥ १८ ॥ (युग्मम् ) तस्यामिक्ष्वाकुवंश्योऽभूद् भुवनत्रयविश्रुतः । अश्वसेनातरङ्गाब्धिरश्वसेनो नरेश्वरः ॥ १९ ॥ .. प्रेयस्याऽप्यनुयाता नामुत्र कीा तदादिजाः । तथापि सा सती कीर्तिस्ते परं सुभगाः श्रुताः ॥ २० ॥ त्याग-शौर्यगुणोऽनेकोऽनेकधारुह्य सङ्गरम् । स मार्गणगणं वीरो लक्षलाभे न्ययोजयत् ॥ २१ ॥ भूचापोत्थैः परस्त्रीणां तीक्ष्णैः कर्णान्तगामिभिः । कटाक्षविशिखैभिन्नं न तस्य हृदयं कलौ ॥ २२ ॥ गृहे श्री रती वक्त्रे भूर्भुजे हृदि धर्मधीः । स्थितेतीव रुषा तस्य कीर्तिरतरं गता ॥२३॥ प्रतापः पीत उष्णश्च यशः शुभ्रं च शीतलम् । १ न एकोऽद्वितीयो यस्मात् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy