________________
१५७
तृतीय : सर्गः। सुखे दुःखे द्विधा वेद्यमायुः कर्म चतुर्विधम् । तिर्यग्-नारक-गीर्वाण-मनुष्यगतिभेदतः ॥ ३६॥ अप्यनेकविधं नाम शुभाशुभविभेदतः । द्विविधं गोत्रमप्युच्चैर्नीचर्भेदाद् द्विधा भवेत् ॥ ३७॥ दान-लाभयोर्वीर्यस्य तथा भोगो-पभोगयोः । प्रत्यूहकरणात् पञ्चविधं कर्मान्तरायकम् ॥ ३८ ॥ प्रतिकूलतया द्वेषादन्तरायादपह्नवात् । ज्ञान-दर्शनयोर्जीवो बध्नात्यावरणद्वयम् ॥ ३९ ॥ अनुकम्पा-व्रतोद्योग-गुरुभक्ति-क्षमादिभिः । सुवेद्यं बध्यते कर्म दुःखवेद्यं तथेतरैः ॥ ४० ॥ सर्वज्ञ-गुरुसङ्घादौ प्रत्यनीकतया भृशम् ।। दर्शनमोहनीयं स्यादनन्तभवकारकम् ।। ४१ ॥ राग-द्वेष-महामोहयुतस्तीवकषायभृत् । देश-सर्वचरित्राख्यमोहनीयस्य बन्धकः ॥ ४२ ॥ मिथ्यादृष्टिः कुशीलश्च महारम्भपरिग्रहः । पापः क्रूरपरीणामो नारकायुर्निबन्धकः ॥ ४३ ॥ उन्मार्गदेशको मार्गनाशको बहुमायिकः। शठवृत्तिः सशल्यश्च तिर्यग्योन्यायुरर्जयेत् ॥ ४४ ॥ प्रकृत्याऽल्पकषायो यः शील-संयमवर्जितः । दानशीलो मनुष्यायुर्गुणैर्वनाति मध्यमैः ॥ ४५ ॥ अकामनिर्जरा-बालतपो-ऽणुव्रत-सुव्रतैः । जीवो बध्नाति देवायुः सम्यग्दृष्टिश्च यो भवेत् ॥ ४६॥ मनो-वचन-कायेषु वक्रो गौरवलम्पटः । अशुभं नाम बध्नाति शुभं तदितरैः पुनः॥४७॥ गुणैषी निर्मदो भक्तो ह्यहंदाद्यागमप्रियः । उच्चैर्गोत्रं निबध्नाति नीचैस्तु तद्विपर्ययात् ॥ ४८ ॥ हिंसाद्यभिरतो मोक्ष-जिनपूजादिविघ्नकृत् ।