________________
१५८
श्रीपार्श्वनाथचरितेअर्जयत्यन्तरायाख्यं कर्माभीष्टार्थवाधकम् ॥ ४९ ॥ कोटाकोट्यः सागराणां मोहनीयस्य सप्ततिः । चतुर्णा ताः पुनस्त्रिंशद् विंशतिनाम-गोत्रयोः ॥ ५० ॥ आयुषस्तु त्रयस्त्रिंशत् सागरा एव केवलाः। उत्कृष्टा स्थितिरित्येवमष्टानामपि कर्मणाम् ॥ ५१ ।। जघन्या सा तु वेद्यस्य मुहूर्ता द्वादश स्मृताः । नाम्नो गोत्रस्य चाष्टान्तर्मुहूर्त शेषकर्मणाम् ॥ ५२ ॥ यथाप्रवृत्तिकरणात् कर्माण्यात्माऽखिलान्यपि । अस्यैककोटाकोव्यन्तः स्थितीनि कुरुते सदा ॥ ५३ ॥ अपूर्वकरणात् तेषां तदा ग्रन्थिं भिनत्यसौ। प्राप्यानिवृत्तिकरणं सम्यक्त्वं लभते ततः ॥ ५४ ॥ तेन प्राप्यामृतेनेव सञ्चैतन्यं सुखीभवेत् । . लब्ध्वास्वाद इवाधत्ते जिनधर्मे मनः शनैः ॥ ५५ ॥ ग्रहस्थ-यतिधर्म च प्रवृद्ध्या प्राप्नुवन्नथ । धौतकर्ममलस्तेन लभते परमं पदम् ॥ ५६ ॥ . अतो धन्यः स सम्यक्त्वरत्नं स्फुरति यद्हृदि । स तु धन्यतमो यस्तदुत्तरोत्तरतां नयेत् ॥ ५७ ॥ : स एव पुरुषः सार्थनामा शेषास्तु विभ्रति । स्वाख्यां डित्थ-डवित्थादिशब्दा इव निरर्थिकाम् ॥ ५८ ॥ श्रुत्वा कुबेरस्तद्दपात् स्फुरदोष्ठपुटो जगौ । आचार्य ! सर्वमप्येतदसंबद्धं तवोदितम् ॥ ५९ ॥ यत्रासौ धर्मकर्मादिगुणौघः स्थाप्यते त्वया। तावत् स एव नास्त्यात्मा निराधारा हता गुणाः ६० ॥ यतस्तदेव सद्वस्तु यः स्यादिन्द्रियगोचरः। न चायमिन्द्रियग्राह्यो जीवस्तस्मान्न विद्यते ॥६१ ॥ तथा चोक्तम्-- समस्तवस्तुविस्तारग्राहिभिश्चक्षुरादिभिः।