________________
तृतीयः सर्गः। यन्न संवेद्यते तन्न विद्यते वियदब्जवत् ॥ ६२ ॥ चेतनाव्यवहारस्तु तथा देहादिसंस्थितिः । पृथ्व्यादिभूतसङ्घातपरिणामो हि केवलम् ॥ ६३ ॥ तस्माद्धमक्रिया व्यर्थमाबाधाकारिणो गुणाः । न च तेषां फलं साक्षादीक्ष्यते ह्यत्र किंचन ॥ ६४ ॥ किश्च कष्टात् तपस्यादेः कथङ्कारं सुखं भवेत् ? । कारणैः सदृशं कार्य फलं बीजानुगं च यत् ।। ६५ ॥ शान्तात्मा मुनिरप्यूचे देवानांप्रिय ! यत्त्वया । उक्तं स्वोक्तिविरुद्धं तद् माता बन्ध्यादिवाक्यवत् ॥६६॥ यतो येन प्रमाणेन जीवाऽभावस्त्वयोच्यते । तदस्ति नास्ति वा तत्रास्तित्वं तावत्तवाऽघटम् ॥ ६७ ॥ ज्ञानरूपप्रमाणं हि न स्यादिन्द्रियगोचरः। नास्तिपक्षे तु तदकिञ्चित्करं शशशृङ्गवत् ॥ ६८ ॥
किश्च,
सन्ति रूपादयो भावा यथान्ध-बधिरादिभिः । अनुपलब्धा अप्येते तदन्यैरुपलम्भतः ॥ ६९॥ तथात्मा चर्मदृष्टीनामदृष्टोऽप्येष विद्यते । प्रत्यक्षत्वात् त्रिकालेऽपि परमज्ञानचक्षुषाम् ॥ ७० ॥ यत उक्तम्अनिन्द्रियगुणं जीवमग्राह्य मांसचक्षुषाम् । सिद्धाः पश्यन्ति सर्वज्ञा ज्ञानसिद्धाश्च साधवः ॥ ७१ ॥ यच्च पृथ्व्यादिसङ्घाताच्चेतना गदिता त्वया । तेषां प्रत्येकचैतन्यात् समुदायेऽपि सा भवेत् ॥ ७२ ॥ वालुकायामसत् तैलं वालुकाघाणकेऽपि न । अत एकेन्द्रिया जीवाः सिद्धाः पृथ्व्यादयः स्फुटम् ॥७३॥ तस्माज्ज्ञानादिधर्मेभ्यो भिन्नाभिन्नविवृत्तिमान् । यथोक्तकर्मणः कर्ता भोक्ता कर्मफलस्य च ॥ ७४ ॥