________________
श्रीपार्श्वनाथचरिते
वीक्ष्यावादीहो ! मुग्ध ! किमेषा कष्टकल्पना ? ॥ २२ ॥ केन त्वं विमलब्धोऽसि यद् धर्मात् सुगतिर्भवेत् ? । तदेव हि सुखं दुःखं यत् साक्षादिह दृश्यते ॥ २३ ॥ मनो-वचन-कायानां ततस्त्वं पूरयेप्सितम् । गुणधर्माऽबाधयेत्थं लब्धं मा हारयेः सुखम् || २४ ॥ इत्यादि राजसूः श्रुत्वा दध्यौ तूष्णीमहोत्तरम् । मतिभ्रंशाय संवादः कुग्रहग्रहिलैः सह || २५ || अस्याsकल्याणमित्रत्वं मन्धोरपि धिक् कथम् ? | तदनं वोधयिष्यामि कुतोऽपि ज्ञानिनो मुनेः || २६ ॥ अन्यदा लोकचन्द्राख्यः सूरिर्भूरिमुनिश्रितः । बहिस्तत्राययौ ज्ञानतपः श्रीवेणिसङ्गमः || २७ ॥ तमुद्यानस्थितं श्रुत्वा कुमारः सपरिच्छदः । कुवेरसहितोऽगच्छदतुच्छात्माऽभिवन्दितुम् || २८ ॥ विधिना शुद्धभावेन ववन्दे स मुनीश्वरम् । कुमारस्योपरोधेन कुबेरोऽपि ननाम तम् ॥ २९ ॥ उपविष्टे यथास्थानं कुमारप्रमुखे जने । धर्मोद्यानसुधाकुल्यां प्रारेभे देशनां मुनिः ॥ ३० ॥ इह प्रकृत्या स्वच्छोऽपि जीवः कर्ममलातृतः । लभते विविधं दुःखं भ्राम्यन् गतिचतुष्टये ॥ ३१ ॥ तच्च कर्माऽष्टधा ज्ञान दर्शनावरणे तथा । मोहनीयं वेद्यमायुर्नामगोत्रान्तरायकम् ॥ ३२ ॥ मति श्रुताऽवधि मनःपर्यायं केवलात्मकम् । ज्ञानं पञ्चविधं तस्यावरणं चापि पञ्चधा ॥ ३३ ॥ अचक्षु वक्षु-रवधि केवलं दर्शनावृति । निद्रा पश्चेति नवधा दर्शनावरणं भवेत् ।। ३४ ।। कषायाः षोडशभिदात्रिके मिथ्यात्व - वेदयोः । हास्यादिषट्कं मोहः स्यादऽष्टाविंशतिनिर्मितः || ३५ ॥
-
१५६