SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५५ तृतीयः सर्गः । जीवः किरणवेगस्य च्युत्वा पूर्णायुरच्युतात् । देव्या अवातरत् तस्याः कुक्षितीरे मरालवत् ॥ ९ ॥ साऽमृतसमये पुत्रमुत्तमस्वमसूचितम् । धरणीभूषणं विश्वदृक्च कोरसुधाकरम् ॥ १० ॥ निवृत्ते सूतके जाते वर्धापनमहोत्सवे । वज्रनाभ इति स्पष्टं तस्य नाम प्रतिष्ठितम् ॥ ११ ॥ आनन्देन समं पित्रोर्वर्धिष्णुः पुण्यपुद्गलैः । वर्त्तमानः स कौमार्ये ग्राहितः सकलाः कलाः ॥ १२ ॥ कलाकलापसम्पन्नः शशीव स न केवलम् । कुलव्योमोज्ज्वलं चक्रे हर्ष कुवलयेऽप्यधात् ॥ १३ ॥ स क्रमादुदयन्नेवं प्रापत्तारुण्यमुज्ज्वलम् । प्रबलतरुणीनेत्र विश्रान्तिबहुलम् || १४ || तद्वशेन च विस्तीर्णा तस्य दृष्ट्या समं मतिः । विक्रमेण समं वक्षःस्थलं चोपचयं ययौ ॥ १५ ॥ कृशत्वमुदरं प्राप क्रोधलोभादिभिः सह । सदाचारविचारेण प्रससार भुजाबलम् ।। १६ ।। शस्त्र - शास्त्रविनोदेन कलाकाव्यरसेन च । अतुच्छस्वच्छधीः क्रीडन् स न कस्य हृदि स्थितः ? ||१७|| अन्यदा बङ्गदेशेन्द्रचन्द्रकान्तो निजाङ्गजाम् । प्रदातुं वज्रनाभाय वज्रवीर्यमुपारुधत् ॥ १८ ॥ तामथोदवत् कन्यां कुमारो विजयाभिधाम् । रूपेण जितकामत्वाद् दिव्यास्त्रमिव मान्मथम् ॥ १९ ॥ सद्वितीयोऽप्यसावेवमद्वितीयोऽभवद् ध्रुवम् । बुद्ध धर्मविधौ दाने माने च विनये नये ॥ २० ॥ अन्यदा स्वपितुर्द्विष्टस्तस्य मातुलनन्दनः । तत्रागत्य कुबेराख्यः कुमारस्यान्तिके स्थितः ॥ २१ ॥ नास्तिवादी स च प्रायः कुमारं धर्मसादरम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy