SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। २३३ सत्त्वं स्तवीति मूर्धानं धुनानो द्युसदां पुरः ॥१०१४ ॥ यादृशः कथितो राजन्नचाल्यो गुसदामपि । शक्रेण, तागवाऽसि सात्त्विकेषु शिरोमणिः ॥ १०१५॥ माहात्म्येन तवैवेदं पुना राज्यं तथैव हि । अढौकत निजस्फीत्या निर्जिताऽमर-दानवम् ।। १०१६ ॥ वसुभूतिः स एवाऽयं मन्त्री मित्रं च ते नृप । शुकरूपः प्रविश्याजनौ यो देव्याः शुद्धिमातनोत् ॥१०१७॥ कुन्तलश्चैष ते सेवां करोति रचिताञ्जलिः। जम्बूकीभूय ते होमसङ्कटे यस्तदारटत् ।। १०१८॥ शूकरोदन्तमारभ्य यावदद्य नरेन्द्र ! यत् । अनुभूतं त्वया विद्धि तदस्मत्कूटनाटकम् ॥ १०१९ ॥ एतत् सर्वे भवत्सत्त्वपरीक्षारसिकैः खलु । अस्माभिर्विहितं तत् ते क्षन्तव्यं महतां गुरो ! ॥१०२०॥ चित्रं परोपकाराय मर्त्यत्वेऽपि भवादृशाम् । अवतारः परोत्तप्त्यै स्वर्गेऽप्यस्मादृशां पुनः ।। १०२१ ॥ किं वा कोऽपि गुणोऽस्माकमपि ते सत्त्वदीपनात् । सुवर्णस्य कथं रेखा कषपी विना भवेत् ? ॥ १०२२ ॥ तव सत्त्वेन सत्येन हरिश्चन्द्र ! महानृप । जलदो वर्षति स्फीतशस्या भूमुदितो जनः ॥ १०२३ ॥ स्वस्यैव सुकृतेनेदं राज्यमापि पुनस्त्वया । अस्मत्तः परितुष्टेभ्यः किञ्चिद् याचस्त्र साम्प्रतम् ॥१०२४॥ लज्जितस्त्रिदशोपज्ञवर्णनाकर्णनाद् नृपः । उवाच न कदाऽप्यस्मि शिक्षितो याचितुं परम् ॥ १०२५॥ किश्च सत्त्वं न मुक्तं खं सूर्यवंशो न लज्जितः । सत्यवाचः कृतश्चेन्द्रः किमतः परमर्थये ॥१०२६ ॥ पुनरप्यूचतुर्देवो नृप ! तन्वन् यशः सितम् । १ देवानाम् । २ उदन्तो वृत्तान्तः । ३ प्राप्तम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy