________________
२३२
श्रीपार्श्वनाथचरितेदेवि ! तिष्ठतु वत्सोऽयं वत्साऽऽच्छादनमर्पय ॥ १००१॥ यावदेवं हरिश्चन्द्रो वदत्यात्मप्रियां प्रति । तावत् तस्य शिरस्याशु पुष्पवृष्टिरभूद् दिवः ॥ १००२ ॥ अहो ! सत्त्वमहो ! धैर्य हरिश्चन्द्रमहीपतेः । एवमुद्घोषणापूर्व दुन्दुभिध्वनिरत्यभूत् ॥ १००३ ॥ राजाऽप्यपश्यदात्मानमयोध्यायां निजौकसि । अलङ्कृतमहासिंहासनं स्वसदसि स्थितम् ॥ १००४ ॥ रोहिताश्वमपश्यच क्रोडे क्रीडन्तमात्मनः । अश्रान्तकान्तिरत्नाङ्कहारस्फारश्रियं मुदा ॥ १००५ ॥ वसुभूति महामात्यं कुन्तलाख्यं च सेवकम् । द्वावप्येतौ स्वस्वरूपौ पुरोऽद्राक्षीत् कृताञ्जली ।। १००६ ॥ यवनिकान्तरे चैव द्रष्टुं नाटकमागताम् । सुतारां भाषमाणां च सख्या शुश्राव भूपतिः॥ १००७॥ . पुरतश्च सुसङ्गीतरसनिर्मनचेतसाम् । नृपा-ऽमात्यप्रभृतीनामपश्यत् संसदं निजाम् ॥ १००८ ॥ प्रतिमन्दिरमैक्षिष्ट क्रियमाणं च नागरैः । नृत्यत्पुरन्ध्रिविश्राण्यमानदानमहोत्सवम् ॥१००९ ॥ प्रतीहारमुखप्राप्तान विजिज्ञपयिषून् जनान् । दरतो नमतः प्रेक्ष्य किमित्येतदचिन्तयत् ।। १०१० ॥ किं नु स्वप्नो मया दृष्टः किं वा मे मनसो भ्रमः । किं वा कस्यापि देवस्य चित्रमेतद् विजृम्भितम् ।।१०११॥ ततश्च प्रकटीभूय चन्द्रचूड-मणिप्रभौ । पुरः स्थित्वा सुरौ राज्ञः सहर्षमिदमूचतुः ॥१०१२ ॥ त्रिशङ्खनन्दन ! श्रीमदिक्ष्वाकुकुलमण्डन !। भरतान्वयभूपाल ! हरिश्चन्द्र ! चिरं जय ॥ १०१३ ॥ धन्यः सुग्राह्यनामा त्वं यस्य वास्तोष्पतिः स्वयम् ।। १ सम्पदम् , एवमपि । २ विज्ञपयितुमिच्छून् । ३ इन्द्रः । .