SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। ३९.१ अथो निशीथसमये चौराश्चत्वार आगताः । सुष्टुवस्तुकृते तेऽपि विवदन्ते परस्परम् ॥ १४७ ॥ कुमारेण कृतां चौरसंज्ञां विज्ञाय तस्करैः। चौरोऽयमित्यथाऽऽहूय पुरस्तादुपवेशितः ॥ १४८ ॥ कुमारः स्माऽऽह भो यूयं कथं युध्यत बान्धवाः ! ? | दस्युभिः कथितं मित्र ! विवादे कारणं शृणु ॥ १४९ ॥ पादुके लकुटः कन्था मोषवस्तुत्रयं, वयम् । चत्वारस्तेन नो कर्तुं विभागोऽमुष्य शक्यते ॥ १५० ॥ कुमारोऽप्याह को वादः कृतेऽस्याऽसारवस्तुनः । तैरूचे मुग्ध ! नो वेत्सि महिमामस्य तत्त्वतः॥ १५१ ॥ कथ्यतां यदि कथ्यं स्यात् कुमारेणेति भाषिते । एकीभूय स्म ते प्राहुर्ययेवं तन्निशम्यताम् ।। १५२ ॥ अत्र प्रेतवने सिद्धेनैकेनाऽऽराध्य तोषिता । षभिर्मासैमहाविद्या वस्तून्येतानि सा ददौ ॥ १५३ ॥ हेरयित्वा च षण्मासान् सिद्धं व्यापाद्य संप्रति । वस्तून्यादाय संप्राप्ता अत्र देवकुले वयम् ॥ १५४ ॥ अस्याः प्रस्फोव्यमानायाः कन्थाया दिवसोदये। शतानि पञ्च रत्नानां पतन्ति प्रतिवासरम् ।। १५५ ॥ शस्त्रं तु लकुटेनोचैर्धाम्यमाणेन नो लगेत् । पादुके पादयोय॑स्य गम्यते चिन्तिताऽऽस्पदम् ॥ १५६॥ तत् श्रुत्वा हृदये तुष्टः कुमारः स्माऽऽह, नाऽधृतिः। कार्या निर्धारयिष्यामि विवादमधुनैव वः ॥ १५७ ॥ चतसृषु क्षणं दिक्षु गत्वा दूरेऽवतिष्ठत । विचार्याऽऽकारयिष्येऽहमागच्छेत तदा द्रुतम् ॥ १५८ ॥ तैस्तथा विहिते कन्यां स स्कन्धे लकुटं करे। पादुके पादयोन्य॑स्योत्पत्याऽन्तनगरं ययौ ।। १५९ ॥ विलक्षवदनाचौरा ययुर्निजनिजाऽऽस्पदम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy