________________
श्रीपार्श्वनाथचरिते
क्षुत- स्खलित शङ्कादौ चिरं जीवतु विक्रमः । इत्यूचानं जनं हृष्टो वीक्षते सर्वतः पुरीम् ॥ १४९ ॥ ( युग्मम् );
१६६
तदा च नृपसौधान्तः पट्टकुञ्जरमृत्युना । तल्लोमाकुलं दृष्ट्रा ययौ राजा द्विजान्तिके ॥ १५०॥ उवाच मित्रं भो विद्याविलासर सिको गजे । प्रविश्य चरितं किञ्चिद् वीक्षे प्रासादमध्यगम् ॥ १५१ ॥ एकान्ते मम कायस्य तत् त्वं प्राहरिको भव । ज्ञातस्वरूपप्रकटो भविष्यामि त्वया सह ।। १५२ ॥ इति स्वं तत्र मुक्त्वा राजा गजकलेवरम् । प्रविवेश करीन्द्रोऽपि पूर्ववद् विलसत्यलम् || १५३ || न केवलं गजो राज्ञा सजीवो विहितो निजः । राजवर्गोऽपि तन्मृत्युमृतः सर्वोऽपि जीवितः ॥ १५४ ॥ प्रावर्तन्त गजेन्द्रस्य विविधा मङ्गलोत्सवाः । कायान्तरगतस्यापि राज्ञो भोगप्रदो विधिः ॥ १५५ ॥ इतश्च दुर्जनात्माऽसौ तनुप्राहरिको नरः । विश्वासघातको मित्रद्रोही लोभादचिन्तयत् ॥ १५६ ॥ महादारिद्र्यदग्धेन किमनेनाङ्गकेन मे १ । प्रविश्य विक्रमस्या कुर्वे राज्यं निराकुलः ॥ १५७ ॥ तथा कृत्वा स सौधान्तः प्रविष्टः कृत्रिमो नृपः । योग्य भूमिमजानानश्चकितोऽरण्यजीववत् ॥ १५८ ॥ ससंभ्रमागतामात्यबाहुलग्नः सदः स्थितम् । सिंहासनमलंचक्रे प्रणतो राजपुरुषैः ।। १५९ ।। करीन्द्रो जीवितो दिष्ट्या नरेन्द्रोऽपि समागतः । grasat शर्करापात इत्यूचानोऽमिलज्जनः ॥ १६० ॥ तेषां यथोचितालापप्रसादमभिवाञ्छताम् । नामकर्माद्यजानानो न करोति किमप्यसौ ।। १६१ ॥