________________
तृतीयः सर्गः।
१६५ अस्प विद्यापदानेन प्रसादो मेऽस्तु तावकैः ॥ १३६ ॥ सविषादं गुरुः माह मा दुग्धं पाययोरगम् । अयोग्योऽयमपात्रे हि विद्याऽनर्थकरी भृशम् ॥ १३७ ॥ यथा कोऽपि पुरा विद्यासिद्धः सिंहास्थिदर्शनात् । सिंहाङ्गं सकलं कृत्वा सजीवं कर्तुमुद्यतः ।। १३८ । वारितो बन्धुना किन्तु सजीवमकरोन्मदात् । हतोऽसौ तेन सिंहेन त्वमप्येवं विभावय ।। १३९ ॥ एवमुक्तोऽपि सिद्धस्य परार्थव्यसनी नृपः । लगित्वा पादयो ढं तस्मै विद्यामदापयत् ॥ १४०॥ गुर्वादेशोपरोधेन जगृहे च स्वयं नृपः। विधिश्च साधने तस्याः सिद्धेन कथितः स्फुटम् ।।१४१।। अविसृष्टोऽपि गुरुणा द्विजोऽभूद् गन्तुमुत्सुकः । न तु राजा विसृष्टोऽपि गुरुवात्सल्यभारितः ॥१४२॥ यतःकलाकलापसंपन्ना उपफर्तुः परामुखाः । न भवन्ति महात्मानः सरसः शिखिनो यथा ॥१४३।। त्वं स्वकृत्यपरो भावी धर्मध्यानपरा वयम् । अनिच्छन्तमपीत्युक्त्वा विससर्ज नृपं गुरुः ॥१४४॥ स्वयं विधाय विप्राच्च विधाप्य विधिसाधनम् । सिद्धविद्यो नृपस्तनानुगतः स्वपुरं ययौ ॥१४५॥ द्विजायात्मीयवृत्तान्तं सौहृदेन न्यवेदयत् । स्वच्छत्वेन गभीरोऽपि दर्शयत्युदधिर्मणीन् ॥१४६॥ गुप्तवृत्त्या दिनं स्थित्वा बहिर्मुक्त्वा द्विजं निशि । निजराज्यस्थितिं दृष्टुमेकाकी प्राविशत् पुरम् ॥१४७॥ पूर्ववद् देवहर्येषु सङ्गीतोत्सवनाटकैः । सुरम्यव्यवहाराचं सधर्माचारधार्मिकम् ॥१४८॥ १ त्वदीयः ।