________________
१६४ श्रीपार्थनाथचरिते
कस्मैचिदद्भुतार्थाय यतन्ते पुनरुत्तमाः ॥ १२३ ॥ एवं च व्रजतो नित्यं मानसोत्साहरश्मिभिः । आकृष्ट इत्र यस्याऽऽशु श्रीगिरिनिकटोऽभवत् ।। १२४ ॥ सिद्धेश्वराभिधं विद्यासिद्धं तत्रैकदेशगम् । प्रसन्नास्यं नृपो दृष्ट्वा तुष्टो नत्वा ततोऽवदत् ॥ १२५ ॥ त्वन्मूर्तिदर्शनेनैव कृतार्थोऽहं मुनीश्वर! । अयच्छनब्रुवाणोऽपि जगदाहादयेच्छशी ॥ १२६ ।। अतस्तव पदाम्भोजद्वयं दुर्लभसङ्गमम् । संसेविष्येऽनुजानीहीत्यनिषिद्धस्तथाऽकरोत् ॥ १२७ ॥ तत्रैको ब्राह्मणोऽग्रेऽपि विद्यायै तिष्ठते चिरात् । तत्कृतो विनयोऽप्यस्य दुःखाय मुहुरर्थनात् ॥ १२८ ॥ बीजमुप्तं शुभक्षेत्रे स्वयमेव यथोदयेत् । यथाऽन्यदपि सत्कर्म दैन्यं क्लेशाय केवलम् ॥ १२९ ॥ आसनन्यास-चरणक्षालनाद्यैर्मनोऽनुगैः।। नृपस्य विनयैर्याच्चारहितैर्मुमुदे गुरुः ॥ १३० ॥ एकाग्रमनसा ध्याता देवाः शैलमया अपि । अचिरेणैव तुष्यन्ति किं पुनश्चेतनो जनः ॥ १३१ ॥ अब्रवीच महाभाग ! सदाचारेण ते मया । ज्ञातं कोऽपि नरोत्तंसस्त्वं देशान्तरकौतुकी ॥ १३२॥ विनयात् तव तुष्टोऽस्मि तत् त्वं विद्यां गृहाण मे । परकायप्रवेशाख्यां यद् भक्तेः स्यां यथाऽनृणः ॥ १३३ ॥ तत् श्रुत्वा विक्रमः स्वार्थशिथिलोऽग्रेतनं नरम् । चिरकालागतं दीनं दृष्ट्वा दध्यौ लसहयः ॥ १३४ ॥ अस्मिन् पुरास्थिते हन्त ! निराशे गुरुवान्धवे । लब्धविद्यः कथं यामि तदेतामस्य दापये ॥ १३५ ॥ बभाषे च प्रभो ! पूज्य ! सेवाहवाकिनश्चिरात् । १ मनोगतैरित्यपि ।