________________
तृतीयः सर्गः। ..
१६३ ततः प्राह कलाविज्ञः कोऽपि देशान्तरी नरः। हर्षोत्फुल्लमुखाम्भोजः पाप्यावसरमुच्चकैः ॥ १११ ॥ भ्रान्तोऽस्मि बहुरत्नायां पृथिव्यां सुचिरं परम् । त्वत्समो न मया दृष्टः श्रीविद्यावेणिसङ्गमः ॥ ११२ ॥ पाताले वासुकिर्देव ! दिवि शक्र उभाविमौ । अदृष्टावपि मन्येते पृथिवीन्द्र ! तव श्रिया ॥ ११३ ॥ महतामवधिः स्वामिन् ! गगनं कथ्यते बुधैः। तत्राप्येकः कलावांस्ते त्वद्राज्ये तु सहस्रशः ॥ ११४ ॥ अवस्त्वेव हि तद्वस्तु निष्कला सा कला विभो ।। अज्ञानं तच्च विज्ञानं यनिलीनं नहि त्वयि ॥ ११५ ॥ यशःसंभारसुरभिर्विक्रमाक्रान्तभूतलः । ॐकार इव वर्णानां त्वं राज्ञां धुरि संपति ।। ११६ ।। वाचस्पतिमतिर्मन्त्री तवाज्ञाजीविता जनाः। सहर्षप्रणताः सर्वे प्रधाना मण्डलेश्वराः॥ ११७॥ सहन्ते द्विषतां वीरा न गन्धं गन्धहस्तिवत् । अनङ्गभरभुनाङ्गचङ्गोऽयं कामिनीजनः ॥ ११८ अस्ति कौतुकचित्रेन्द्रजालादन्यदपि प्रभो!। परकायप्रवेशाख्या किन्तु विद्या न विद्यते ॥ ११९ ॥ ससंभ्रमं नृपः प्राह कुत्रास्तेऽसौ वदाऽऽशु में? । सोऽप्याह श्रीगिरौ देव ! सिद्धेश्वरनरान्तिके ॥ १२.० ॥ . विसृज्याथ सभा राजा राज्यकार्ये स्वमन्त्रिणम् । न्यारोप्य नगराद् विद्याकौतुकी निशि निर्ययौ ॥१२१॥ ताग्राज्यसुखं हित्वा दुःखान्यगणयन् पथि । नवार्थरसिकः सत्त्वसहायो यात्यसौ मुदा ॥ १२२ ॥ यतःनीचाः शरीरसौख्यार्थमृद्धिव्यापीय मध्यमाः। , कलावान् सोमः। २ व्यापो विस्तारः ।