SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। १६७ सहर्षमागता देव्याः प्रियसख्योऽपि तादृशम् । लीलाविलासलालित्यरसं नासादयन्त्यतः ॥ १६२ ॥ अमात्यः पालितप्राज्यराज्यः संभाषणं नहि । मानं प्रधानसामन्ता लभन्ते नापि नागराः॥ १६३ ॥ ते तादृशं नृपं दृष्ट्वा चिन्तयन्त्येष किं सुरः। दैत्यो वा राजरूपेण शून्यराज्यमधिष्ठितः ॥ १६४ ॥ नैतच्च घटते पादौ येनास्य लगतः क्षितौ । निमेषश्च दृशोस्तेन चित्तचालः कुतोऽप्यसौ ॥ १६५ ॥ चित्तं विरहसंतप्तं कमलावचनामृतैः । निर्वाप्यं चेदित्यमात्यस्तं चेट्याऽऽनाययत् ततः ॥ १६६ ॥ स कृत्रिमनृपो दध्यावहो ! मे सुमना विधिः । येनानीत इमां भूमिं मनसोऽपि सुदुर्लभाम् ॥ १६७ ॥ राज्ञी संभ्रान्तमुत्थाय मण्डयत्यासनादिकम् । दृष्ट्वा च तं पुनर्भूपं मूर्छितेव पतत्यधः ॥ १६८ ॥ उक्ता चेटीभिरुत्थाप्य किमिदं देवि ! कथ्यताम् । नृपोऽप्याह कथं देवि ! मूर्छाघातो मदागमे ? ॥ १६९ ॥ तद्वचःश्रवणाद् जातमहार्तिः साऽप्यचिन्तयत् । एष प्रिय इवेक्षेत दाहं दत्ते तु वैरिवत् ॥ १७० ॥ लब्धोपायाऽवदद् देवी देव ! यात्राक्षणे मया । शुभागमाय वश्चण्ड्या उपयाचितकं कृतम् ।। १७१ ॥ यथा देवि ! प्रपूज्य त्वां वीक्षे दृष्ट्याऽपि वल्लभम् । तदकृत्वेक्षमाणा त्वां चण्ड्याऽहं पातिता भुवि ॥ १७२ ॥ तत्पूजासमयं देव ! कथयिष्याम्यहं खयम् । इति दत्तोत्तरो राझ्या भवनाद् निर्ययौ नृपः ॥ १७३ ॥ इतश्च तं गजं मन्त्री राजपाट्य व्यभूषयत् ।। सुचिरादागतं येन स्वामिनं वीक्षते जनः ।। १७४ ॥ यथा राजाऽपि नगरं दृष्ट्वा मुदितनागरम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy