SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १६८ श्रीपार्श्वनाथचरिते स्वस्थीभूतमनाः सर्वमालापयति पूर्ववत् ॥ १७५ ॥ अन्योऽन्यमथ जल्पन्ति हस्तिशृङ्गारकारकाः। अहो ! शून्य इव स्वामी देशान्तरगमादभूत् ॥ १७६ ॥ इत्याकर्ण्य स दन्तीन्द्रोऽत्याकुलश्चिन्तयत्यहो । किमिदं हा ! द्विजो राज्ये मन्मूल् ललति ध्रुवम् ॥१७७।। गुरुणा वारितेनाऽपि यद्विद्या दापिता मया । विप्राधमस्य तस्येदं शीघ्रमासादितं फलम् ।। १७८ ॥ अविश्वासमयीं नीतिमभ्यस्ता बाल्यतोऽस्मि यत् । विस्मार्य तस्य विश्वस्तस्तत् किश्चिद् दैवतं ध्रुवम् ॥१७९॥ नीचोऽप्युच्चैभवेद् दैवादुच्चोऽपि हि लघुर्भवेत् । सैव विद्या श्रियं तस्य कुरुते हरते मम ॥ १८० ॥ कलभपरिवाराचं वस्तु कायानुगं भुवि । काये व्रजति तत्सर्व परकीयं ममाऽभवत् ॥ १८१ ॥ यथेहाध्यक्षतो दृष्टं तथाऽमुत्रापि देहिनः । कर्मैव सहगं तेन सुकृतं कुर्वते बुधाः ॥ १८२ ॥ भवतु प्राप्तकालीनं कुर्वे तावत् पलायनम् । मा ममाऽस्तु तदारोहे पापस्योपरि चूलिका ।। १८३ ॥ संप्रधाउँदमुत्कर्णो व्याकुश्चितकरः करी । वेगेन गन्तुमारब्धो जज्ञे कलकलो महान् ॥ १८४ ॥ पादचारा-ऽश्ववाराचैर्दधावेऽनु सहस्रशः। अधिकाधिकगत्याऽस्य निर्विण्णैस्तु न्यवर्तत ॥ १८५ ॥ दूरारण्ये करी गत्वा श्रान्तो दध्यौ विषण्णधीः । क्व भूसंज्ञाभवत्कार्य राज्यं क्वेदं पलायनम् ? ॥१८६॥ किंवा स्तोकमिदं पुंसो दुर्बुद्धेः खलसङ्गिनः। इति चिन्ताधिक्षुत्-तृष्णा-तापैराचक्रमे नृपः ॥ १८७ ।। संप्राप्य वटवृक्षस्य च्छायां विधुरबन्धुवत् । . वस्थीभूतः क्षणं तत्र नरमेकं ददर्श सः ॥ १८८॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy