SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। १६९ चटपादान्तरस्थं तं धनुर्गोलिकया शुकान् । नन्तं वीक्ष्य स दुष्पूरदुर्वहाऑन खेदितः ॥ १८९ ।। दध्यौ किममुनाङ्गेन श्रेयानृद्धौ हि विस्तरः । तद्विशामि शुकस्याङ्गमिति राजा तथाऽकरोत् ॥ १९ ॥ (युग्मम् ) व्याधमाह शुको भद्र ! बहुकारवधेन किम् ? । अवन्त्यां नय मां टङ्कसहस्रं लप्स्यसे ध्रुवम् ॥१९॥ किन्तु मे प्रत्ययो जन्यस्तत श्रुत्वा मुदितो नरः । अभयप्रत्ययं तस्योत्पाद्य जग्राह तं करे ॥ १९२ ॥ पाययित्वा जलं चूर्णि ढौकयित्वा, सुनितम् । शुकं कृत्वा गतोऽवन्ती व्याधो राजपथे स्थितः ॥१९३॥ लोको वदति किं मूल्यं, सहस्रं भाषते नरः। कीरं पृच्छति यल्लोकस्तत्तच्छास्त्रं पठत्यसौ ॥ १९४ ॥ याचितादधिक मूल्यं जनो दत्ते परं नरः । नादत्ते कीरवाक्येन महार्योऽभूत् ततोऽधिकम् ॥ १९५॥ चेट्योऽथ कमलावत्याः प्राप्तास्तन्मर्मकोविदः । कीरस्तदेकया पृष्टः पपाठ मधुराक्षरैः ॥ १९६ ॥ तवाक्षिविशिखैर्विद्धः सुभगोऽस्मीति जीवति । अविद्धो म्रियते तन्वि ! धनुर्विद्येयमद्भुता ।। १९७ ॥ किश्चित् त्वमपि भाषस्व यत् पठाम्यनु शिष्यवत् । तयोचे गुरुरेव त्वं कस्य शिष्यत्वमर्हसि ॥ १९८ ॥ इति हर्षोत्सुका चेटी गत्वा देव्यै न्यवेदयत् । न दृष्टो न श्रुतः कीरः सुकविः स्वामिनीदृशः ॥ १९९ ॥ तदीयवर्णनाऽत्यर्थतुष्टा राज्ञी व्यचिन्तयत् । काव्यशास्त्रविनोदाय ददौ मे प्राभृतं विधिः ॥ २० ॥ सोत्कण्ठं चावदच्चेटी रे ! याहि त्वरितैः पदैः। पुंसो यद्याचितं दत्त्वा शुकराजमिहानय ॥२०१॥ ___ २२
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy