________________
भीपार्थनाथचरितेचेव्या तथाकृते व्याधः कृतार्थः स्वास्पदं ययौ। . कीरं कराम्बुजे कृत्वा नीतो देव्यन्तिके तया ।। २०२॥ दृष्ट्वा संमुखमायाती हर्षेण कमलावतीम् । दक्षिणं भुजमुत्क्षिप्य पपाठ मधुरं शुकः ॥२०३॥ देवि ! वामभुजस्थत्वद्भारोद्धाराय विक्रमः । प्रतिमानमिव क्षोणी धत्ते दक्षिणबाहुना ॥ २०४॥ सा हसित्वाऽऽह कीर! त्वमियतेदं ब्रवीषि यत् । धरैश्वर्य विना नारीभारः क्रष्टुं न शक्यते ॥२०५॥ साधु साधु त्वया मोक्ता भूरिभारकरा वयम् । सत्यवाक्येन को न स्यात् तुष्टो यः पण्डितो भवेत् २०६।। लज्जयेति शुकोपज्ञां गोपयित्वात्मवर्णनाम् । सा स्वर्णपञ्जरे चारुनिषधे तमधारयत् ।। २०७॥ स्वयं संस्कुरुते स्थानं परिमार्जन-धूपनैः । सज्जम्बु-दाडिमीबीजा-ऽऽमलकानि च यच्छति ॥२०८॥ अन्यान्यपि तदिष्टानि पेय-भक्ष्याण्यढौकयत् । तत्संलापामृतैर्नित्यमात्मानं प्रीणयत्यसौ ॥ २०९ ॥ पठ प्रश्नोत्तरं किश्चिदिति राझ्या नियोजितः । शुको विद्याविनोदाय पपाठ सहसैव सः ॥ २१०॥ योगी किं ध्यायति ध्याने गुरवे क्रियते किमु । प्रतिपन्नं सतां कीहगादौ छात्राः पठन्ति किम् ? ॥२११॥ इति पृष्टे यदा राज्ञी चिन्तयन्त्यपि सा चिरम् । न जानाति तदा सोऽदादों नमः सिद्धमुत्तरम् ॥ २१२ ॥ न लगेद् नाग-नारिले निम्ब-तुम्बे पुनर्लगेत् । लगेत्युक्ते लगेचैव मा मेत्युक्ते भृशं लगेत् ।। २१३ ॥ तत् किं मे कथ्यतामेवं भूयः पृष्टा शुकेन सा। क्षणं विमृश्य देव्याह हुं ज्ञातं ओष्ठसंपुटम् ॥ २१४ ॥ । चामनोहरा निषचा आसनं यस्मिंस्तस्मिन् ।