________________
तृतीयः सर्गः।
१७१विहिता निर्विषा नागा देवाः शक्तिविवर्जिताः । निश्चेष्टाश्च यथा सिंहाः सा बालैर्धियते करे ॥ २१५ ॥ केयमित्युदिते राज्या द्रुतं ज्ञात्वा शुकोऽब्रवीत् । शृणु ज्ञातं मया देवि ! सा चित्रकरलेखनी ।। २१६ ॥ गजा येन हताः सिंहाः क्रान्ता व्याकुलिता भटाः । स कोलिकगृहे वीरो देवि ! बद्धो मयेक्षितः ॥ २१७ ॥ शुकोदितमिति प्रश्नं श्रुत्वा स्मृत्वा च सा जगौ । हसन्ती यदहो ! वीर ! ईदृशो मशकः स्फुटम् ।। २१८ ॥ मृणालाभमहिव्यूहमञ्जनं क्षीरसन्निभम् । नभः कर्पूरसंकाशं राझ्या गूढचतुर्थ ॥ २१९ ॥ इति पृष्टे शुकः प्राह करोति यशसा महान् ।
दोषोऽपि गुणतां याति विषमप्यमृतायते ॥ २२० ॥ ["मित्राणि शत्रवोऽपि स्युः" इति शुकेन गूढचतुर्थके पृष्टे राशी ___चतुर्थपदं माह- अनुकूले विधौ नृणाम्"] कृपणोऽपि नृपार्घ्यः स्यादुदारस्यापि लौल्यता । भावाभावन यस्यायमाख्यातोऽपि न बुध्यते ॥ २२१ ॥
[इति राझ्या पृष्टे शुकः प्राह- आकारः] साकारः कष्टकारी स्यात् सविकारः सतां मतः । सनिकारो जनाभीष्टः केवलस्तु निरर्थकः ॥ २२२।।
[इति शुकेन पृष्टे राशी पाह- धिकारः] नक्तमादौ दिनस्यान्ते प्रदोषादपरोऽस्ति यः।। मानसान्तर्गतोऽप्येष लक्ष्यते न कथंचन ।। २२३॥ __[इति राझ्या पृष्टे शुकः प्राह- नकारः] लक्ष्मी-खेद-निषेधार्थ-ब्रह्म-चक्राङ्ग-शर्मणाम् । .. , पादे, इति शेषः।