________________
षष्ठः सर्गः।
३६१ नख-केश-तनूकान्ति-दृष्टि-दन्त-स्वरादिभिः। : विशिष्टलक्षणैरेवं लक्षिता या च लक्ष्यसे ॥ ११२२ ।।
सा त्वं कथमिमां दीनां दशां प्राप्तासि सुन्दरि ! । किश्व सनत्कुमारः स्यात् तव यं शरणीयसि ? ॥११२३॥ साऽवोचद् भद्र ! मे भर्ता स मनोरथमात्रतः। पित्रा दत्ताऽस्मि यत् तस्मै दुःखहेतुमथो शृणु ।।११२४॥ श्रीसाकेतपुरे राजा सुरभिश्चन्दना प्रिया ।। दुहिताऽहं तयोर्जाता पाणेभ्योऽप्यतिवल्लभा ॥११२५॥ रूपं सनत्कुमारस्य लिखित्वा फलकेऽन्यदा।। आगाद् दूतोऽश्वसेनस्य पित्रा तद् दर्शितं मम ।।११२६।। जाता शून्याऽस्मि तद् वीक्ष्य यन् मे चित्तापहारतः । तत् सजीवमभूचित्रं निर्जीवत्वं पुनर्मम ॥ ११२७ ।। ततः पित्रा विदित्वाऽहं संप्रदानविधानतः । दचा सनत्कुमाराय विवाहोऽयापि नाऽभवत् ।।११२८॥ एको विद्याधरस्तावत् कुट्टिमाद् मामिहाऽनयत् । विद्याविकुर्विते सौधे मुक्त्वा चाऽस्मिन् कुतोऽप्यगात् ११२९ एवं वदति सा यावत् तावद् विद्याधराऽधमः । संहसा स समागत्य कुमारं गगनेक्षिपत् ॥११३०॥ ततो हाहारवं रौद्रं कुर्वाणा साऽपि बालिका । मूछ परवशीभूता पपात धरणीतले ॥११३१ ॥ तावन्मुष्टिप्रहारेण हत्वा तं दुष्टखेचरम् । आर्यपुत्रोऽन्तिके तस्या अक्षताङ्गः समाययौ ॥ ११३२ ॥ तां समाश्वास्य चाऽऽख्यातववृत्तान्तो व्यवाहयत् । सा च स्त्रीरत्नमेतस्य सुनन्दाख्या भविष्यति ॥ ११३३ ॥ तमस्तोमसमं दुष्टखेचरं विनिहत्य तम् । सा बाला पद्मिनी येनाऽऽनन्दिता सूर एव सः ॥११३४॥ १ शरणमिच्छसि ।