________________
चतुर्थः सर्गः।
२४३ तमारुह्य वृतो भूपैः क्रीडया निर्ययौ पुरात् । जधान कशया चाचं वेगज्ञानाय भूपतिः ॥२४॥ ततस्तथा प्लुतो वेगाद् यथाऽऽकृष्टोऽपि वल्गया । सोऽश्वः प्रतीपशिक्षत्वादधाविष्टाऽधिकाधिकम् ॥२५॥ चक्रारूढमिवाऽमस्त तदा भूवलयं नृपः। . महीरुहानपि जबादायाँत इव संमुखान् ॥२६॥ समग्रपरिवारस्याऽदृश्यीकृत्य क्षणाद् नृपः। ... निन्ये तेनाऽटवीं जीवः कर्मणेव भवान्तरम् ॥२७॥ तत्र दृष्ट्वा सरः स्वच्छ जलं तृष्णार्तिशान्तये । लस्थावश्वः स योगीव मुश्चन्नापूरितानिलम् ॥२८॥ उत्तीर्य राज्ञाऽम्युत्तार्य पयार्ण स्नानपूर्वकम् । अश्वोऽम्भः पायितः सन्तो दुःखेऽप्याश्रितवत्सलाः ॥२९॥ स्नात्वा पीत्वा स्वयं चाऽऽपः क्षणं विश्रम्य पार्थिवः । वलितः पुरतोऽपश्यद् रम्यमेकं तपोवनम् ॥ ३० ॥ शृङ्गकण्डूयनं पृष्ठे कुर्वद्भिर्जरभृगैः। -- बालैश्चाङ्कगतैदृष्ट्वा मुनीस्तत्राऽतुषद् नृपः ॥ ३१ ॥ स्फुरितं दक्षिणं. चक्षुस्तदिष्टाऽऽशसि चिन्तयन् ।। अतीवमुदितो राजा प्रविवेश तपोवनम् ।। ३२ ॥ गच्छंश्च पुरतोऽपश्यद् दक्षिणेन सखीयुताम् । ...' लतासेकं पयस्कुम्भैः कुर्वती मुनिकन्यकाम् ॥ ३३ ।। तस्या विश्वातिगं रूपं दृष्ट्वा दध्यौ नृपो ननु । केयं जित्वा द्विधा रम्भां सौकुमार्य विजृम्भते ? ॥ ३४ ॥ नाग-विद्याधरा-ऽमर्यस्त्रीभ्रमं यत् करोत्यसौ । । तन्मन्ये विधिना तासां कृतोऽयं सारसंग्रहः ॥ ३५ ।। ततश्च वृक्षान्तरितो यावदेवं व्यचिन्तयत् । : माधवीमण्डपं तावत् सह. सख्या विवेश सा ॥ ३६ ॥ १ द्वितीयाबहुवचनम्। २ कदली देवाङ्गनां च ।