________________
.'
२४२
श्रीपार्श्वनाथचरितचतुर्थोऽपि पुमर्थोऽभून्नृपतेः सङ्गमोत्सुकः ॥ ११॥ अथ वेयकात् काले वज्रनाभाऽमरश्च्युतः । सुदर्शना कुक्षिशुक्तौ स मुक्तेवाऽवतीर्णवान् ॥ १२ ॥ ततो ददर्श सा राज्ञी निशान्ते शयनस्थिता । चतुर्दश महास्वमांश्चक्रभृजन्मसूचकान् ॥ १३ ॥ राज्ञा विचारितैः स्वनैः सा हृष्टाऽगमयद् दिनान् । दिवाकरमिव प्राची समयेऽसूत चात्मजम् ॥ १४ ॥ कृत्वा जन्मोत्सवं भूयोऽप्युत्सवेन महीयसा । सुवर्णबाहुरित्याख्यां तस्य चक्रे नराधिपः ॥१५॥ अकादकसमारोपादङ्गसङ्गमलालसाः। सर्वे राजान एवाऽस्य बभूवुर्बालधारकाः ॥ १६ ॥ समीन-मकरायके स्फुरन्नखमणिप्रभे। अङ्गुलीवेत्रवल्लीके पाटलाधरविद्रुमे ॥ १७॥ लावण्यजलसंपूर्णे गम्भीरे स्वयमेव हि । समुद्रसदृशे तस्मिन् कला नद्य इवाऽविशन् ॥१८॥
... (युग्मम् ) बाल्यमुल्लङ्घय स प्रोचैरारूढो यौवनं नमः।चेतःसरसि नो कस्य भानुवत् प्रतिबिम्बितः १ ॥१९॥ भवोद्विग्नः 'क्षमाधीशः क्षमं ज्ञात्वा च तं सुतम् ।। उपरुध्य न्यधाद् राज्ये प्रवज्यां जगृहे स्वयम् ॥२०॥ शेषोपस्करनिर्मुक्ता क्षमाखण्ड-शमाज्ययुक् । धन्यैरेवाऽऽहती दीक्षा :रेयी प्रोज्ज्वलाऽऽप्यते ॥२१॥ स्वीकृताशावधूकर्णपूरीकृतयशोऽम्बुजः । सुवणेबाहुरुदाहुः शशास क्ष्मां सुखैकभूः ॥२२॥ अन्यदा प्रामृताऽऽयातमश्वमेकं ददर्श सः। . तुच्छंश्रवसमप्युच्चैःश्रवोलक्षणलक्षितम् ॥२३॥ कर्णपूरं कुण्डलम् । २ आजानुबाहुः । ३ तुच्छकर्णम् ।