________________
अथ चतुर्थः सर्गः।
अथाऽस्ति जम्बूद्वीपेऽस्मिन् प्राग्विदेहस्य भूषणम् । पुरं सुरपुरं नाम येन वर्गायते मही ॥१॥ यस्मिन् कुमणिषु त्रासस्तापः स्वर्णे, ग्रहो गुणे । छत्रेषु दण्डः प्रायेण, वास्तव्ये न पुनर्जने ॥२॥ यत्र स्फटिकहर्येषु प्रतिबिम्बच्छलानिशि । रम्यत्वादिव लीयन्ते यान्तो विद्याधरा दिवि ॥३॥ निर्दयाः पापसंहारे, निर्दाक्षिण्याः खजीविते ।। लुब्धा यशसि, दोषेभ्यो भीरवो यत्र पूरुषाः ॥४॥ मणिगेहाङ्गणोद्भूतप्रभाजालजले स्थिताः। यत्राब्जिन्य इवाऽऽभान्ति स्त्रियः स्मेरमुखाम्बुजाः ॥५॥ तत्रोज्ज्वलयशश्चन्द्रधवलीकृतदिग्मुखः। भूभृद्ददलनवजाभो वज्रबाहुमहीपतिः ॥६॥ अकलको दृढः शुद्धपरिवारो गुणान्वितः । यः सदृक्षः खखड्गेन बद्धमुष्टिः पुनर्नहि ॥७॥ औदार्य-धैर्य-गाम्भीर्य-स्थैर्यप्रभृतयो गुणाः। यस्याऽन्योऽन्यमभूष्यन्तोपवनस्येव पादपाः ॥८॥ रूप-लावण्य-माधुर्य-लज्जा-विनयशालिनी । नामतो रूपतोऽप्यासीत् तस्य पत्नी सुदर्शना ॥९॥ चित्रं यदस्य महिषी साऽभवन्नृपतेः प्रिया। तदारभ्य मुमोचैष विशेषात् खलसंग्रहम् ॥ १० ॥ अन्योऽन्याबाधया तस्य पुरुषार्थत्रयीजुषः। .