________________
२४०
श्रीपार्श्वनाथचरिते
अनिष्टोऽयमिति ध्यात्वा हत्वा भिल्लो न्यपातयत् ॥११०२॥ गाढपहारेणाऽऽर्तोऽपि नार्तध्यानी मनागपि । दध्यौ सहव रे ! जीव ! तवैवेदं पुराकृतम् ॥११०३।। यतःउपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः । सिंहस्तु शरमप्रेक्ष्य शरक्षेप्तारमीक्षते ।।११०४॥ किञ्च, स्मृत्वा पञ्चनमस्कारं सिद्धानां पुरतः स्फुटम् । सम्यगालोचनां कृत्वा विहिताऽनशनः खयम् ।।११०५|| मध्यप्रैवेयके मृत्वा ललिताङ्गाऽभिधः सुरः। बभूव निर्मलानन्दसागरे मनमानसः ॥११०६ ॥
(युग्मम् ) हृष्टो धनुर्धरंमन्यः कालेन कियताऽप्यसौ । कुरङ्गकः कुरङ्गात्मा मृत्वाऽगात् सप्तमावनौ ॥११०७।। विश्वश्रीशिरसो विभूषणविधौ दिव्येन्द्रनीलप्रभः । शश्वत् शस्यपरम्पराप्रसरणे निर्मोघमेघोपमः ॥११०८॥ संसाराध्वनि खिन्नभव्यमनसां विश्रामसान्द्रद्रुमः । पार्थो भाव सुखं तनोतु भगवांस्तापापहारी जिनः॥११०९॥ इति श्रीकालिकाचार्यसन्तानीय-श्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथ- . चरित्रे महाकाव्येऽष्टसर्गे भावाङ्के श्रीपार्श्वनाथषष्ठ-सप्तमभवव्या
वर्णनो नाम तृतीयः सर्गः ॥ ३ ॥
१ श्वा।