________________
तृतीयः सर्गः ।
२३९ चाह्य राज्यं परित्यज्याऽन्तरङ्गं धर्ममाददे ॥ १०८९ ॥ यत्राऽस्ति विरतिर्भार्या विवेको मन्त्रिपुङ्गवः । प्रियः कुमारः संवेगः प्रतीहारश्च संवरः ॥१०९०॥ । आर्जवं पट्टहस्ती च विनयस्तु तुरङ्गमः । रथः शीलाङ्गनामाऽत्र भृत्याः शम-दमादयः ॥ १०९१ ॥ सम्यक्त्वं सौधं सद्धर्म-शुक्लध्याने सुचामरे । सिंहासनं च संतोषो यशश्छत्रं तु विस्तृतम् ॥ १०९२ ।।
(कलापकम् ) द्वादशाङ्गयामथाऽधीती तपःक्षपितविग्रहः। स गुर्वनुज्ञयैकाकिविहारप्रतिमां दधौ ॥ १०९३ ।। तपस्तेजोभवव्योमयानलब्धर्वशादसौ। विहरनन्यतोऽन्येाः सुकच्छविजयं ययौ ॥ १०९४ ॥ अहिजीवोऽपि नरकादुद्वृत्याऽभूद् भवं भ्रमन् । ज्वलनाद्रौ सुकच्छस्थे भिल्लो नाम्ना कुरङ्गकः ॥१०९५॥ पापपिण्ड इवाऽध्यक्षः करालाक्षो मषीनिभः । आस्तां हस्तेन दृष्ट्याऽपि संहरन् वर्ततेऽङ्गिनः ॥१०९६॥ वज्रनाभमुनीन्द्रोऽपि तस्मिन्नेव विधेः वशात् । ज्वलनाद्रौ गतो रात्रौ कायोत्सर्गेण तस्थिवान् ॥१०९७॥ ध्वान्तेन मलिनेनैकाकारे जगति निर्मिते । सर्वतः प्रसृतं तस्य स्पर्धयेव निशाचरैः ॥ १०९८ ॥ फेत्कारैर्दीपिनां घूकघूत्कारैश्च शिवारवैः। यक्ष-रक्षोऽट्टहासैश्च तदाऽऽसीदति भीषणम् ॥ १०९९ ॥ सुतरां हृदि देदीप्यमानध्यानप्रदीपकः। धर्मजागरणात् तस्थौ स मुनिनिर्भयः स्थिरम् ॥११००॥ पुनः प्रातस्ततोऽचालीत् स यावत् तावदग्रतः । कुरङ्गकेण पापर्द्धिव्यग्रेण ददृशे मुनिः ॥११०१॥ प्राच्यषवशस्फूर्जत्कोपः पापः शरेण तम् ।