________________
२३८
श्री पार्श्वनाथचरिते
अतः स्वभावेनैवाऽस्मिन्नुच्चैः कलकलायितम् | कुर्वाणे यदि कोऽपि स्वं बहिः कर्षत्यसौ कृती ॥ १०७७॥ तच्च चारित्रयानस्य विनाऽऽधारं न जायते । श्रयणीयं तदेवाऽतः किं समुद्रावगाहने ? || १०७८ ।। इति प्रबोधवैराग्याज्जिघृक्षुर्नृपतिर्व्रतम् ।
पुत्रं मित्रमित्राssकार्य स्वाभिप्रायमचीकथत् ॥ १०७९ ।। चक्रायुधोऽब्रवीत् तात ! किं भाग्यमियदेव मे । त्वत्पदैकाश्रयं यद् मां मैवं परिजिहीर्षसि ? ।। १०८० ॥ कः प्रस्तावोऽधुना, युक्तं व्रतं वयसि पश्चिमे । • युज्यते त्वधुना लोकपालनं लालनं मम ।। १०८१ ॥ ततः प्राह नृपो वत्स ! मैवं वद सदाशय ! | प्रथमं पश्चिमं वाऽपि वयः को वेत्ति बालक ! ।। १०८२ ॥ किञ्च,
नागवल्लीले पक्के रसो रङ्गश्च चर्विते । यादृशस्तादृशो धर्मः पुंसोऽतिजरसो व्रते || १०८३ ॥ साधिता भूः कृतं राज्यं दत्तं दानं यशोऽर्जितम् । किं कृतैहिककृत्यस्य पुनश्चर्वितचर्वणैः १ || १०८४ ॥ सुवर्णनिगडप्रायादतो मे राज्यबन्धनात् । निर्याती मोक्षसौख्याय त्वं मा भूरन्तरायकृत् ।। १०८५ ।। त्यक्त्वा कथंचनोपाधिं स्वभावभुवमीयुषः ।
मा मनो मर्कटस्यास्य पुनः पद्यां प्रदर्शय ।। १०८६॥ पूर्वक्रमागतं राज्यभारं घेहि धुराक्षम ! |
यथाऽहं तव साहाय्याद् भवेयं स्वार्थसाधकः || १०८७ ॥ इति श्रुत्वा मौनपरं राज्ये न्यस्य सुतं नृपः । उपादत्त परिव्रज्यां क्षेमङ्करजिनान्तिके ।। १०८८ ।। बहिरङ्गाद् विधेरन्तरङ्गः सबल इत्यसौ ।
१ वार्धक्ये |
२ जरामतिक्रान्तस्य । ३ षष्ठ्यन्तम् ।