________________
२३७
तृतीयः सर्गः। जीवस्य राजापुरुषैरिव रुद्धस्य कर्मभिः । तस्थुषो भवसौख्येऽपि विना मुक्तिं कुतः सुखम् ॥१०६४॥ इत्याराध्य वीतरागं भव्या आराधका मताः। आराधना तु तस्याऽऽज्ञा तत्फलं त्वपुनर्भवः ॥ १०६५ ॥ चिन्त्यं न चैवं यन्नैव वीतरागः प्रसीदति । प्रसादाभावतश्चाऽस्मात् कथं प्राप्यं फलं बुधैः ? ॥१०६६॥ ईदृग् माहात्म्यमेवाऽस्य येनाऽऽराधकसिद्धये । अचेतनोऽपि किं नात्र दत्ते चिन्तामणिः फलम् ? १०६७ इति तत्त्वोपदेशाख्याद् भिन्नजाड्यः सदौषधात् । लब्धाऽन्तरङ्गचैतन्यः प्रोन्मीलितहृदीक्षणः ॥१०६८ ॥ गृहिधर्म गुरुश्रद्धः कुबेरो गुरुसन्निधौ । गतरोग इवोत्पन्नक्षुधयाऽऽहारमग्रहीत् ॥ १०६९ ॥
(युग्मम् ) अथ नत्वा मुनि धाम सकुबेरः कुमारराट् । ययौ गुरुगुणग्रामहंसकलिसरोमनाः ॥ १०७० ॥ योग्यं ज्ञात्वाऽन्यदा तस्मै वज्रवीर्यनराधिपः । राज्यं दत्त्वा स्वयं पल्या सह व्रतमुपाददे ॥ १०७१ ॥ नृपः श्री वज्रनाभोऽपि महीं न्यायेन पालयन् । दिग्भ्यः श्रियः समानीय ताः कीर्त्या पर्यपूरयत् ।।१०७२॥ अभूच्च तनयस्तस्य विजयाकुक्षिसंभवः । गुणैरञ्चितभूपालचक्रश्चक्रायुधाभिधः ॥ १०७३ ।। अन्यदा सुस्थिते राज्ञः पयसीवाऽमले हृदि । उन्मिमील विचारः प्राग् यः श्रुतो भवगोचरः॥ १०७४ ॥ दध्यौ च स तटे स्थित्वा धिया भवमहोदधेः। अहो ! भवसमुद्रस्य वीचिभिः क्षिप्यते न कः ? ॥१०७५।। उत्पद्यन्ते विपद्यन्ते सर्ववस्तूनि वीचिवत् । तत्र किं गृह्यते किं च मुच्यते किं च गण्यते ? ॥१०७६॥