SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३६ श्रीपार्श्वनाथचरितेसत्र देशव्रतं जीवहिंसादीनां प्रदेशतः। निषेधेन सर्वथा तु स्यात् सर्वविरतिव्रतम् ॥ १०५१ ॥ जिनपूजा द्विधाऽपीत्थं तदाज्ञाराधनात् सताम् । फलदा स्याद् निजोत्कर्ष-परदोषपरित्यजाम् ॥ १०५२ ।। जीवाऽजीवौ तथा पुण्यं पापमाश्रर-संवरौ । बन्धो विनिर्जरा-मोक्षौ नव तत्त्वानि तन्मते ॥ १०५३ ॥ तत्र जीवः कर्मकर्ता भोक्ता कर्मफलस्य च । चैतन्यलक्षणस्तस्मादजीवो वैपरीत्यभाक् ॥ १०५४ ॥ सत्कर्मपुद्गलाः पुण्यं, पापं त्वेतद्विपर्ययः । आश्रवश्चित्त वाक्-कायव्यापारा बन्धहेतवः ॥ १०५५ ॥ संवरस्तनिरोधस्तु तथा जीवस्य कर्मणा । यः संबन्धस्तयोरैक्यकृत् स बन्धः प्रकीर्तितः ॥ १०५६ ॥ बद्धस्य कर्मणः शाटो यस्तु सा निर्जरा मता। आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥ १०५७ ॥ एतानि नव तत्त्वानि यः श्रद्धत्ते स्थिराशयः । सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥१०५८ ॥ तथा भव्यत्वपाकेन यस्यैतत् त्रितयं भवेत् । सम्यग्ज्ञान-क्रियायोगाजायते मोक्षभाजनम् ।।१०५९॥ फलं च मोक्षस्त्रैलोक्योपर्यवस्थानलक्षणः । यत्र जीवस्य न जरा न मृत्युनं पुनश्च्यवः ॥ १०६० ॥ मनो-वचन-कायानामभावान्नाऽऽधिसंभवः । न विवादो न च व्याधिर्न चाऽऽवाधा परस्परम् ॥१०६१॥ गतपत यथा तुम्बं जले यात्युपरि स्वयम् । क्षीणकर्ममलो जीवस्तथा याति शिवालयम् ॥ १०६२ ॥ तत्राऽसौ परमानन्दरूपं नष्टाऽखिलक्रियः । स्वस्वरूपगतं शुद्धं शाश्वतं सुखमश्नुते ।। १०६३ ॥ १ विशरणम् । २ नाशः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy