SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। २३५ कुबेरः पुनरमाक्षील्लोकशास्त्रोन्मुखः कियत् । मत वो नियमाद् धर्मः स च शास्त्रेण योगिनाम् ॥१०३९॥ तथा चअत्याहारस्तथायासः प्रजल्पो नियमग्रहः । लोकसङ्गश्च दैन्यं च षड्भिर्योगी विवर्जितः ॥१०४०॥ मुनिरप्याख्यदस्तीदं किं तु बाल इवाऽङ्गुलिम् । धृत्वाऽऽदौ नियमं जीवोऽनालम्बोऽपि क्रमाञ्चरेत् ॥१०४१॥ किश्च ग्रन्थान्तरेऽप्युच्यते-- भूषितोऽपि चरेद् धर्म यत्र तत्राश्रमे रतः। समः सर्वेषु भूतेषु न लिङ्गं तत्र कारणम् ॥ १०४२ ॥ क्रिययैव भवेद् योगी न योगोच्चारमात्रतः । कतकस्याहयेनैव न हि वारि प्रसीदति ॥१०४३॥ हृष्टः प्राह कुरोऽपि प्रभो ! सुव्रतधारणात् । इत्थं धर्मोपदेशाच गुरुस्तावत् त्वमेव मे ॥ १०४४ ।। धर्ममित्रं कुमारोऽयं कथ्यतां किन्तु मेऽधुना । को देवः काऽस्य पूजा च किं तत्त्वं किं च तत्फलम् ? १०४५ गुरुः प्राह जिनो देवो रागद्वेषविवर्जितः । हतमोहमहामल्लः केवलज्ञान-दर्शनः ॥ १०४६ ॥ सुरासुरेन्द्रसंपूज्यः सद्भूतार्थप्रकाशकः । कृत्स्नकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ॥ १०४७ ॥ स सम्यग् हृदये धार्यो वश्यमन्त्रः शिवश्रियः। पूजा च विविधा तस्य द्रव्य-भावविभेदतः ॥१०४८॥ द्रव्यपूजा जिनेन्द्रस्य गन्ध-पुष्पा-ऽक्षतादिभिः । तथा तबिम्बचैत्यादौ शुद्धद्रव्यनियोजनम् ॥१०४९।। भावपूजा तु सर्वज्ञैर्ऋतरूपा प्रकीर्तिता। देश-सर्वविरत्याख्या भेदतस्तत् पुनर्दिधा ॥ १०५० ॥ १ जलशुद्धिकृच्चूर्णम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy