SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः। २५९ तालवृन्तकरास्तस्थुः स्वदिपक्षे यथाविधि ॥ ६३ ॥ इलादेवी सुरादेवी पृथिवी पद्मवत्यपि । एकनासा नवमिाक सीता भद्रेति नामतः ॥ ६४ ॥ अथोत्तराद् रुचकतोऽप्येत्याऽष्टौ कन्यका जिनम् । जिनाम्बां च प्रणम्याऽस्थुरुत्तरेण सचामराः ।। ६५ ।। अलंबुसा मिश्रकेशी पुण्डरीका च वारुणी । हासा सर्वप्रभा चैव श्री रित्याह्वयाश्च ताः ॥ ६६ ॥ एयुर्विदिगुरुचकाद्रेश्चतस्रोऽमूः सदीपिकाः । चित्रा चित्रकनका शतेरा सौदामिनी तथा ।। ६७ ।। रुचकद्वीपत्तोऽप्येयुश्चतस्रो दिक्कुमारिकाः । रूपा रूपासिका चाऽपि सुरूपा रूपकावती ॥ ६८ ॥ चतुरङ्गुलबर्ज ता नाभिनालं जिनेशितुः । छित्त्वा खनित्वा विवरं तत्र तच्च निचिक्षिपुः ॥६९।। विवरं पूरयित्वाऽऽशु रत्ननाणिक्यमौक्तिकैः । दूर्वायाः पीठिकावन्धं तस्योपरि च चक्रिरे ॥ ७० ॥ अथ सूतिगृहात् पूर्वदक्षिणोत्तरदिक्षु ताः । त्रीन् मध्यस्थचतुःशालान् विचक्रुः कदलीगृहान् ।। ७१ ।। अथो जिनं जिनाम्बां च ता नीत्वा दक्षिणौकसि । चतुःशालस्थिते रत्नमये सिंहासने न्यधुः ।। ७२ ।। तैलैरभ्यज्य तौ दिव्यैरुद्वोद्वर्तनैश्च ताः । नीत्वा पूर्वचतुःशाले मणिपीठे न्यवेशयन् ।। ७३ ।। जलैश्च स्नपयित्वाऽच्छैर्दिव्यनेपथ्यमण्डनौ । कृत्वा नीत्वोत्तरे चतुःशाले रत्नासने न्यधुः ।। ७४ ।। तयोः क्षुद्रहिमाद्रेस्ता द्रागानाय्याऽभियोगिकैः । गोशीर्षचन्दनं दग्ध्वा रक्षापोट्टलिकां व्यधुः ॥ ७५ ।। पर्वतायुभवेत्युच्चैरुक्त्वा कर्णान्तिके विभोः । ताः समास्फालयामासुर्मिथः पाषाणगोलको ।। ७६ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy