________________
२२२
श्रीपार्श्वनाथचरितेमुनिभ्यः पृथिवी दत्ता विक्रीता ससुता प्रिया । यत् करिष्यति दैवं तद् हरिश्चन्द्रः सहिष्यते ॥८७१॥ दृष्ट्वा तां बाहानेपथ्यैरदूषितवपुलताम् । मन्त्रिणे पृथिवीनाथः स्ववितर्क न्यवेदयत् ।।८७२॥ चन्द्रकान्तं मुखं यस्याः सुवर्ण वपुरेव हि । पद्मरागौ करावेव किमस्या मण्डनान्तरैः ? ॥८७३॥ उपलक्ष्य शुकोऽथैनां ननाम नतमस्तकः । उशीनरसुते ! देवि ! सुतारे ! स्वस्ति ते सति ! ॥८७४॥ राज्ञोचे किं मुहुः कीर ! प्रलपस्येवमुच्चकैः । क सातोशीनरसुता किं त्वं कीरोऽसि मद्यपः १ ॥८७५॥ सावष्टम्भं शुकः प्राह हरिश्चन्द्रनृपो ह्ययम् ।। अस्य पत्नीयमित्यर्थोऽन्यथा स्यात् प्रलयेऽपि न ॥८७६।। राज्ञा पृष्टो हरिब्रूते हरिश्चन्द्रो नृपोऽस्मि न । किन्त्वहं श्वपचस्याऽस्य द्रव्यत्रीतोऽस्मि कर्मकृत् ॥८७७॥ राज्ञा पृष्टाऽङ्गना प्राह न सुताराऽस्मि राज्यहम् । किन्तु द्विजन्मनो वज्रहृदयाख्यस्य दासिका ।। ८७८ ॥ अरे ! विप्लावयस्यस्मानित्युक्ते भूभुजा शुकः। प्राह किं खं हरिश्चन्द्रः प्रकाशयति ते पुरः? ॥ ८७९ ॥ यतःसतो वाऽप्यसतो वाऽपि वान् स्वयं कीर्तयन् गुणान् । ब्रह्मापि हास्यतां याति किं पुनः प्राकृतो जनः १ ॥८८०॥ हरिं प्रत्याह राजा भो मा भैषीः सत्यमुच्यताम् । ननु यद्यप्यहं वैरी त्राताऽऽपदि तथाऽपि ते ॥ ८८१ ॥ हरिश्चन्द्रोऽब्रवीद् देव ! वचसा पक्षिणोऽस्य किम् । पुनरायस्यते स्वं, यद् दासोऽस्याऽस्मीत्यवोचत ? ॥८८२॥ रूप-लावण्य-धैर्यादिगुणविस्मितचेतसा । राज्ञा पृष्टा पुनर्नारी तदेवोत्तरमाख्यत ॥ ८८३ ॥