SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। २२१ उचितं यत् कुरु त्वं तन्निग्रहे त्वमसि प्रभुः ॥८५७॥ साक्षेपमादिशद् राजा मन्त्रिन् ! श्वपचमाह्वय । कलहंसं तमाहातुमादिक्षत् सचिवस्ततः ॥ ८५८ ॥ कलहंसोऽपि तत्रैव विमुच्य शुकपञ्जरम् । जगामाऽथ नृपोऽवादीद् मन्त्रिन् ! किं न्वस्ति पञ्जरे ? ८५९॥ मन्त्रिणांचे महाराज ! शुकराजोऽस्ति सर्ववित् । उपश्लोकय राजानमित्युक्तश्च शुकोऽपठत् ॥ ८६०॥ सद्धर्म ! जय काशीन्द्र ! यस्याऽऽकृष्टा गुणैभृशम् । नयन्ति मार्गणा लक्ष्मीमेकेऽन्ये त्वानयन्ति ताम् ।।८६१॥ राज्ञा किं पठितोऽसीति पृष्टोऽसावाख्यदात्मनः । तर्क-लक्षण-साहित्य-गणित-स्मृतिकौशलम् ॥ ८६२ ॥ मान्त्रिकः प्राह भो राजन् ! राक्षसी वोऽन्यचेतसाम् । प्रभविष्यति तत् कोऽयं विलम्बोऽस्या विनिग्रहे ? ॥८६३॥ ततश्चागात् सचण्डालो हरिश्चन्द्रसमन्वितः । हरिश्चन्द्रं शुको दृष्ट्वाऽभूदुत्फुल्लाक्षमानसः ॥ ८६४ ॥ प्राह च स्वस्ति ते नाथ ! भरतान्वयभूपते ! । हरिश्चन्द्र ! नमद्भूपपौलिरत्नाङ्कितक्रम ! ॥ ८६५ ।। सरोषं प्राह राजाऽपि किमबद्धं प्रभाषसे । क साकेतपतियंत्र कीर ! त्वं विह्वलोऽसि किम् ? ॥८६६।। अथाह श्वपचं मन्त्री कुर्वऽनाच्छादनामिमाम् ।। तेनाऽपि हरिरादिष्टस्तां कृत्वाऽनवगुण्ठनाम् ।। ८६७ ।। प्रत्यभ्यज्ञासीत् किं नाम सुतारा देव्यसौ हहा ! ?। किमेतेन हि दैवेन हन्तव्या वयमेव हा !? ॥ ८६८ ॥ नास्मिन् कर्मणि देव्येषा करणं स्यात् कथञ्चन । किन्तु मे कोऽपि दुष्कर्मप्रेरितः कुरुते ह्यदः ॥८६९।। प्रविश्याऽग्नि ततो देव्या दोषमुत्सारयाम्यहम् । अथवाऽरिसभायां मे नात्मा योग्यः प्रकाशितुम् ।।८७०॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy