________________
श्रीपार्श्वनाथचरिते
तत आकार्यतामेष इत्युक्तो मन्त्रिणा नृपः । आजूहवत् तदैवैनं सोऽप्यागत्य समाविशत् ।। ८४४ ॥ राजोचे मान्त्रिकं किं नः पुर्या मारिविजृम्भितम् ? | सोऽप्याह नाटयन् ध्यानं राक्षसीललितं हृदः ॥ ८४५ ॥ वृद्धवेश्याऽऽह साऽऽश्वासं पुत्रिका मम मान्त्रिक ! | मृताधुनैव, स प्राह जीवयिष्यामि तां खलु ॥ ८४६ ॥ सा वस्त्राञ्चलमादाय भ्रमयित्वा शिरस्यधात् । मदाशिषः प्रभावेन चिरं त्वं जीव मान्त्रिक ! ॥ ८४७ ॥ ततो दासी समागत्य कुट्टिन्यै समचीकथत् । मातस्त्वं वर्धसे दिष्ट्या यतो जीवति मे खसा ॥। ८४८ ॥ ततः प्रत्ययतो राजा सादरं प्राह मान्त्रिकम् । आनेतुं प्रभवस्येनां राक्षसीमथ सोऽब्रवीत् ||८४९ ॥ किमेवं कथ्यते देव ! मन्त्रेणाऽऽकृष्य वासुकिम् । पातालाद्, वासवं स्वर्गाद्, अन्धेर्लङ्कामिहानये ।। ८५० ।। यद्यस्ति कौतुकं तत्त्वं सामग्रीमुपाकय । माष- सर्षप
२२०
-लवणान्युत्खङ्गानष्ट पूरुषान् ।। ८५१ ॥ क्षणात् तथाकृते राज्ञा मान्त्रिको मण्डलं व्यधात् । तदन्तरुपविश्याथ किञ्चिद् ध्यानमनाटयत् ॥ ८५२ ॥ दिक्पालाद्दानमर्चानां मन्त्रानुच्चैरथोच्चरन् । मन्त्रिको राक्षसी मन्त्रैराचकर्ष विहायसा ॥ ८५३ ॥ आयान्ती साऽनुगान् प्राह रे ! ग्रासः कचिदीक्ष्यताम् । येनाऽस्मि सुचिराद् वाढं क्षामकुक्षिर्बुभुक्षया || ८५४ ॥ मण्डले मन्त्रशक्त्याथ सनिर्घातं पपात सा । सर्वेऽविभयुस्तस्या बिडाल्या इव मूषिकाः ।। ८५५ ।। सविस्मयं नृपः प्राह मन्त्रोत्कर्षावधिस्त्वयम् | य एनां राक्षसी मन्त्रैरानैषीत् पश्यतां हि नः ॥ ८५६ ॥ मान्त्रिकः माह कर्तव्यमस्माभिः कृतमेव हि । .