________________
तृतीयः सर्गः ।
२१९
निलीयाsस्थादिव कापि नगरे मङ्गलध्वनिः ॥ ८३० ॥ मृत्योर्भीता जना रक्षां विदधत्यात्मनो यथा । तथा प्रेरितवन्मृत्युस्तान् गृह्णाति सहस्रशः ।। ८३१ ॥ श्रुत्वाऽथ दुःसहलोकाssक्रन्दं मरणजं पुरे । आहृत् सत्यवसुं भूपो मन्त्रिणं चन्द्रशेखरः ||८३२ ॥ राजादेशात् समायान्तं मन्त्रिणं कोऽपि पूरुषः । अन्तरा मिलितोऽनंसीत् कीरपञ्जरपाणिकः || ८३३॥ कलहंस ! त्वया कीरो लब्धोऽयं केति मन्त्रिणा । पृष्टे स प्राह चम्पाया बने देवैनमाप्नुवम् १ ||८३४|| चन्द्रशेखर भूपाय सदाप्रियविपश्चिते । सर्वशास्त्र नदीष्णत्वादिहाऽऽनैषं शुकोत्तमम् ||८३५॥ इति तद्वचनं शृण्वंस्तेनैव सह मन्त्रिराट् । ययापनृपं नत्वा यथास्थानमुपाविशत् ।। ८३६ ॥ सखेदं प्राह भूपालो मन्त्रिन् ! पश्य पुरीजनः । संकोचितायुर्दैवेन याति वातेन दीपवत् ।। ८३७ ।। न वयं दुर्नया नाऽपि श्लथधर्मः पुरीजनः । नृणामकालमृत्युश्च तदन्वेषय कारणम् || ८३८ || ततश्च कुट्टिनी काचित् पुत्रमरणविह्वला । उरस्ताडं समागत्य साक्षेपं नृपमब्रवीत् ।। ८३९ ॥ सदैवाऽन्यायकारी त्वं सदा पीडयसि प्रजाः । सदाऽपि पापनिष्ठोऽसि तेनाऽयं म्रियते जनः ॥ ८४० ॥ मत्पुत्री नामतोऽनङ्गसुन्दरी स्मरमञ्जरी । प्रक्रीड्य सुखशय्यायां सुप्ताऽकस्माद् मृताऽस्ति हा ! ॥ ८४१ ॥ अहो ! कर्कशता ह्यस्या अहो ! निर्लज्जता गिराम् । इति ध्यायन्नृपेणोक्ते मन्त्री किं क्रियतामिति १ ॥ ८४२ || मन्त्र्याह स्वामिन्नत्रार्थे प्रगल्भन्ते हि मान्त्रिकाः । राजा महाऽऽगतोऽस्ती होज्जयिन्या मान्त्रिको महान् ॥ ८४३ ॥