SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २१८ श्रीपार्श्वनाथचरितेचण्डालस्याऽपि कर्माऽहं कृत्वा दुष्करमप्यथ । दास्ये स्वर्णमिति क्षमापोक्तेऽभूद् रोमाश्चितो मुनिः ।।८१८॥ ततः कौपीनवासोभृल्लघुपिङ्गकचोच्चयः । दृढयष्टिकरो वृद्धो निषादः कोऽपि चाऽगमत् ॥ ८१९ ॥ राजानं वक्ष्यि स प्रोचे रे ! त्वं कर्मकरोऽसि किम् ? करिष्यसि च मे कर्म तत् श्रुत्वाऽचिन्तयद् नृपः ॥८२०॥ रविरस्तङ्गतो लोकः क्रायको नास्ति नो मुनिः । क्षमते तनिषादस्यापि कुर्वे कर्म सम्पति ॥८२१॥ करिष्ये कर्म तेऽवश्यं राज्ञेत्युक्तेऽथ सोऽवदत् । किं किं कर्ताऽसि मे कर्म राजाऽऽहाऽऽदिशसीह यत्॥८२२॥ रक्षितव्यं श्मशानं च लातव्यं मृतकाम्बरम् । अर्धदग्धानि काष्ठानि ग्राह्याणि च चितिचयात् ॥ ८२३ ॥ यत् तत्रोत्पद्यते तस्याध हि गृह्णाति भूपतिः । अन्यस्यास्य भागौ द्वौ ममैकस्त तु दास्यते ॥ ८२४॥ राजाऽऽदिशति यत् किञ्चित् तच्च कार्य त्वया सदा। गङ्गासन्नश्मशानेशः कालदण्डाभिधोऽस्म्यहम् ॥ ८२५ ॥ इति श्रुत्वा नृपः स्माह तं त्वदाज्ञाकृदस्म्यहम् । यदत्र मां प्रति स्यात् तद् दातव्यं मुनये खलु ॥ ८२६ ॥ अपवार्य मुनिः प्रोचे नमस्ते सत्त्वशालिने । नमस्ते सत्यसन्धाय नमस्ते धैर्यसद्मने ॥ ८२७ ॥ कालदण्डोऽपि तद्वाचं प्रपन्नः साक्षिणं मुनिम् । कृत्वा सह नृपेणासौ श्मशानमगमद् निजम् ।। ८२८ ॥ इतश्च पुर्यामेतस्यामकस्मादपि देहिनाम् । जीवितव्यं हरन् मृत्युरुपतस्थे खलो यथा ॥ ८२९ ।। ततश्च परितः प्रोबदाक्रन्दध्वनिभिर्जितः । १ भागिन्यर्थे द्वितीया ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy