________________
तृतीयः सर्गः ।
राजा सास्रं ततो दध्यौ धिगापदमिमां मम । इन्द्रस्याऽप्यङ्कलाल्योऽयं पद विप्रेण हन्यते ॥८०५ || ततः प्रोचे नृपो विप्र ! न तिष्ठेद् मातरं विना । शिशुः किमपि ते कर्म कर्ता क्रीणीह्यमुं ततः ।। ८०६ ॥ नैतं मुधाऽपि गृह्णामीत्यूचानं द्विजमब्रवीत् । सुताराss ! गृहाणैनं विधाय मय्यनुग्रहम् ॥ ८०७ ॥ विप्रोsपि कृपया स्वर्णसहस्रं तस्य वेतने ।
२१७
कृत्वा दत्त्वा च राज्ञे, तावादाय स्वगृहं ययौ ॥ ८०८ ॥ राजा दध्यौ न लप्स्येऽहं पुरे वासं ततो मुनिः । यथेति स्वर्णमेतस्मै दत्त्वा स्यामकुतोभयः ।। ८०९ ॥ ततः कुलपतिः कुर्वन्नाज्ञामित्र समाययौ । कोपात् पराङ्मुखीभूय प्रोचे द्राग् देहि हेम मे ।। ८१० ॥ गृहाण कियदप्येतदित्युक्ते भूभुजा मुनिः ।
उवाच कुपितस्त्वैतद् ग्रहीष्येऽल्पं न काञ्चनम् ।। ८११ ॥ मासोपरि गताः पञ्च दिना यदि तदाऽपि हि । कियदेव ब्रुवाणस्त्वमदृश्यास्य ! न लज्जसे || ८१२ ।। दध्यौ राजाऽधमर्ण धिगुत्तमर्णस्य दुर्गिरः । यः सहन्नपि भूयोऽपि तं प्रीणयति चादुभिः ॥ ८१३ ॥ ऊचे च भगवन्नैव काऽपि मे चित्तदुष्टता ।
विक्रीय दयिता-पुत्रौ यत् प्राप्तं तत् समर्पये ।। ८१४ ॥ ऊचेऽङ्गारमुखो मूर्ख ! राजानं प्रार्थय द्रुतम् । चन्द्रशेखरमत्रत्यं किं विक्रीतौ प्रिया-सुतौ ? ।। ८१५ ।। arissara किमिदं ब्रूषेऽनुचितं सखशालिनाम् । शतशो हि पराभूतान्नाहं प्रत्यर्थिनोऽर्थये ॥ ८१६ ॥ प्रतिज्ञया भ्रष्ट ! वाचाट ! पुरो नः स्वं विकत्थसे । इत्युक्ते मुनिना प्राह राजा मा स्म मुने ! कुपः ।। ८१७ ॥
१ पादेन ।
२८