________________
२१६
श्रीपार्श्वनाथचरिते
धत्ते किमपि लावण्यमसंस्कृतमपीतरत् ।। ७९१ ॥ सुतारायाः पुरः पुण्यं रोहिताश्वं सुलक्षणम् । दर्भाङ्कशिरसं प्रेक्ष्य धिक् शास्त्रमिति सोऽब्रवीत् ॥ ७९२ ॥ शास्त्रेषु लक्षणानीह कथ्यन्ते यानि कानिचित् । सन्ति सर्वाणि तान्येषामवस्था पुनरीदृशी ।। ७९३ ॥ नृपः स्वानुभवं प्राह मा मैवं त्वं द्विज ! ब्रवीः । शास्त्रं नहि मृषाभाषि किन्तु मे कर्मवैभवम् ।। ७९४ ।। पूर्वे जन्मनि यश्च ददतामदतां स्वयम् । श्रेयश्च कुर्वतामन्तरायः स इह भुज्यते ।। ७९५ ।। तद्वशादीदृशी चेत् तेऽवस्थैषा तच्छुचाऽत्र किम् | सर्व विषमाणो हि कर्मभिर्मुच्यते जनः ।। ७९६ ॥ किमस्या मूल्यमित्युक्ते ब्राह्मणेन मुहुर्मुहुः । कथञ्चिद् रुद्धवाष्पोऽथ राजाऽऽख्यदुचितं हि यत् ।। ७९७|| ततः स्वर्णसहस्राणि पञ्चास्या मूल्यमस्तु भोः ! | वदतीति द्विजे राजा लज्जया धोमुखोऽभवत् ॥ ७९८ ॥ अनिषिद्धमनुज्ञातमिति विप्रे नृपाञ्चले । स्वर्ण बध्नति राजाख्यद् मोक्षोऽस्या द्विगुणेन भोः ! || ७९९ ॥ तत् प्रपद्य द्विजः प्राह सुतारामग्रतो भव । चलितायां सुतारायां रोहिताश्वोऽञ्चलेऽलगत् ॥ ८०० ॥ रुदतीदं सुताisse तिष्ठ त्वं पितुरन्तिके । आनेतुं मोदकं तुभ्यं वत्स ! यान्त्यस्मि सम्प्रति ॥ ८०१ ॥ अमुञ्चत्यश्चले तस्मिन् मुहुर्मात्राऽपि बोधिते । भृतिके ! किं विलम्बोऽयमिति क्रुद्धो द्विजोऽवदत् ॥ ८०२ || सुतारां सभयं यान्तीं यावद् मुञ्चति नार्थकः । तावत् करतलेनैतमाहत्याऽपातयद् द्विजः ।। ८०३ ।। सवाष्पं पुनरुत्थाय मातुर्वस्त्राञ्चलेऽलगत् । पुनर्द्विजेन भूमौ स पादेनाऽऽहत्य पातितः ॥८०४ ॥