________________
तृतीयः सर्गः ।
दध्यौ सुतारा धिग् दैवं भवे भवशतानि यः । दत्तं यन्नः क सा लक्ष्मीः क्वैषा विक्रयवाच्यता ? ||७७९ ॥ राजाऽप्यचिन्तयद दत्ता न तथाऽकीर्तये मही । यथा ह्यकीर्तये पत्नी-पुत्रयोरिह विक्रयः ॥ ७८० ॥ विसृजामि सुतारां तत् सपुत्रां पितृवेश्मनि । यदभाव्यं तदहं सोढा ध्यात्वेत्यूचे च तां नृपः ।। ७८१ ॥ देवि ! याहि पितृकुलं पुत्रमादाय सम्प्रति । यथा तथाऽप्यहं स्वर्ण दास्यामि मुनये खलु ।। ७८२ ॥ साक्षेपं प्राह देवी तु किन्नु स्यात् प्रलयेऽप्यदः १ | विमुच्यत्वामहं यान्ती सत्यं जाताऽस्मि दुर्जना ||७८३ ॥ सरसीव पयःपूर्णे सर्वमृद्धौ समं भवेत् ।
नैःस्व्ये स्व-परयोर्भेदः शुष्केऽस्मिन्नुच्च - नीचवत् ||७८४॥ किश्च—
२१५
वरं मृत्युर्वरं भिक्षा वरं सेवाऽपि वैरिणाम् ।
देवाद विपदि जातायां स्वजनाऽभिगमो न तु ॥ ७८५ ।। अपिच
सा सती या हिया भर्तुः संमुखे दिवसेऽनुगा । तनुच्छायेव धैर्येण प्रतीपेऽस्मिन् पुरो भवेत् ।। ७८६ ॥ • इतश्च ब्राह्मणः कोऽपि वीक्षमाण इतस्ततः । भृतिकां काञ्चिदायासीदुपभूपं स उन्मुखः ॥ ७८७ ॥ दृष्ट्वा च भूपमापादमस्तकं चक्रिलक्षणम् । ऊचे कस्त्वं कथं देहं श्रीगेहं भृतकीयसि ? ॥ ७८८ ॥ शुचाssत्तमौनं भूपालमालप्याऽगच्छदग्रतः ।
दृष्टा सुतारां सास्रोऽभूदुच्चैर्देवं निनिन्द च ॥ ७८९ ॥ रतेरपि शिरोरत्नमेतां निर्माय सुन्दरीम् । कथं नयसि रे ! दैव ! हन्त ! दास्यविडम्बनम् ॥७९० ॥ यतः - स्निग्धमङ्गं सतीरूपं सुवर्ण साधुभाषितम् ।